ज्ञानस्य आत्माकारत्वाभावे सति आत्मज्ञानमिति व्यपदेशासिद्धिः इति एकदेशी शङ्कते -
कथं तर्हीति ।
का अत्र अनुपपत्तिः इति आशङ्क्य आह -
सर्वं हीति ।
आत्मनोऽपि तर्हि विषयत्वेन ज्ञानस्य तदाकारत्वं स्यात् इति आशङ्क्य आह -
निराकारश्चेति ।
आत्मनो विषयत्वराहित्यं चकारार्थः ।
आत्मवत् तज्ज्ञानस्यापि तर्हि निराकारत्वं भविष्यति इत्यत्र आह -
ज्ञानेति ।
तच्छब्देन आत्मज्ञानं गृह्यते । तस्य भावना - पौनःपुन्येन अनुसन्धानम् । तस्याः निष्ठा - समाप्तिः आत्मसाक्षात्कारदार्ढ्यंम् । न च एतत् सर्वम् आत्मनः ज्ञानस्य वा निराकारत्वे सिध्यति इत्यर्थः ।
ज्ञानात्मनोः साम्योपन्यासेन सिद्धान्ती समाधत्ते-
नेत्यादिना ।
यथोक्तसाम्यानुसारात् आत्मचैतन्याभासव्याप्ता ज्ञानपरिणामवती बुद्धिः । साभासबुद्धिव्याप्तं मनः साभासमनो व्याप्तानि इन्द्रियाणि । साभासेन्द्रियव्याप्तः स्थूलः देहः ।
तत्र लौकिकभ्रान्तिं प्रमाणयति -
अत इति ।
आत्मदृष्टेः देहमात्रे दृष्टत्वात् , तत्र चैतन्याभासव्याप्तिः इन्द्रियद्वारा कल्प्यते । इन्द्रियेषु च तद्दृष्टिदर्शनात् चैतन्याभासवत्त्वं मनोद्वारा सिद्ध्यति । मनसि च आत्मदृष्टेः चैतन्याभासवत्त्वं बुद्धिद्वारा लभ्यते । बुद्धौ च आत्मदृष्टेः अज्ञानद्वारा चैतन्याभाससिद्धिः इत्यर्थः ।