देहे लौकिकम् आत्मत्वदर्शनं न्यायाभावात् उपेक्षितम् इति आशङ्क्य, आह-
देहेति ।
तथापि कथम् इन्द्रियाणां न्यायहीनम् आत्मत्वम् इष्टम् इत्याशङ्क्य, आह -
तथेति ।
तथापि मनसः यत् आत्मत्वं, तत् न्यायशून्यम् इति आशङ्क्य, आह -
अन्य इति ।
बुद्धेः आत्मत्वम् अपि न्यायोपेतम् इति सूचयति -
अन्ये बुद्धीति ।
देहादौ बुद्ध्यन्ते परम् आत्मत्वबुद्धिः, न अन्यत्र, इति ऩियमं वारयति -
ततोऽपीति ।
तत्र हि साभासे अन्तर्यामिणि कारणोपासकानाम् आत्मत्वधीः अस्ति इत्यर्थः ।
बुद्ध्यादौ देहान्ते लौकिकपरीक्षकाणां आत्मत्वभ्रान्तौ साधारणं कारणम् आह -
सर्वत्रेति ।
आत्मज्ञानस्य लौकिकपरीक्षकप्रसिद्धत्वादेव विधिविषयत्वमपि परेष्टं परास्तम् इत्याह -
इत्यत इति ।
ज्ञानस्य विधेयत्वाभावे, किं कर्तव्यं द्रष्टव्यादिवाक्यैः ? इति आशङ्क्य, आह -
किं तर्हिति ।
आत्मज्ञानस्य अविधेयत्वे प्रागुक्तं अतःशब्दितं हेतुं विवृणोति -
अविद्येति ।
देहेन्द्रियमनोबुद्ध्यव्यक्तैः उपलभ्यमानैः सह उपलभ्यते चैतन्यम् ।
न अन्यथा तेषाम् उपलम्भः जडत्वात् इत्यत्र विज्ञानवादिभ्रान्तिं प्रमाणयति-
अत एवेति ।
सर्वं ज्ञेयं ज्ञानव्याप्तमेव ज्ञायते । तेन ज्ञानातिरिक्तं नास्त्येव वस्तु । संमतं हि स्वप्नदृष्टं वस्तु ज्ञानातिरिक्तं नास्ति इति ते भ्राम्यन्ति इत्यर्थः ।
ज्ञानस्यापि ज्ञेयत्वात् ज्ञातृ वस्त्वन्तरम् एष्टव्यम् इति आशङ्क्य, आह -
प्रमाणान्तरेति ।
ज्ञानस्य स्वेनैव ज्ञेयत्वोपगमेन अतिरिक्तप्रमाणनिरपेक्षतां च प्रतिपन्नाः इति सम्बन्धः ।
ब्रह्मात्मनि ज्ञानस्य सिद्धत्वेन अविधेयत्वे फलितम् आह -
तस्मादिति ।
यत्नः अत्र भावना ।
ब्रह्मणः तज्ज्ञानस्य च अत्यन्तप्रसिद्धत्वे, कथं ब्रह्मणि अन्यथा प्रथा लौकिकानाम् ? इत्यत्र आह -
अविद्येति ।
यथाप्रतिभासं दुर्विज्ञेयत्वादिरूपमेव ब्रह्म किं न स्यात् ? तत्र आह -
बाह्येति ।
गुरुप्रसादः - शुश्रूषया तोषितबुद्धेः आचार्यस्य करुणातिरेकादेव ‘तत्त्वं बुध्यतां’ इति निरवग्रहः अनुग्रहः । आत्मप्रसादस्तु - अधिगतपदशक्तिवाक्यतात्पर्यस्य श्रौतयुक्त्यनुसन्धानात् आत्मनः मनसः विषयव्यावृत्तस्य, प्रत्यगेकाग्रतया तत्प्रावण्यम् इति विवेकः ।
आत्मज्ञानस्य आत्मद्वारा प्रसिद्धत्वे वाक्योपक्रमं प्रमाणयति-
तथा चेति ।