श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
केचित्तु पण्डितंमन्याःनिराकारत्वात् आत्मवस्तु उपैति बुद्धिःअतः दुःसाध्या सम्यग्ज्ञाननिष्ठाइत्याहुःसत्यम् ; एवं गुरुसम्प्रदायरहितानाम् अश्रुतवेदान्तानाम् अत्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु अकृतश्रमाणाम्तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिः नितरां दुःसम्पादा, आत्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्य अनुपलब्धेः, यथा एतत् एवमेव, अन्यथाइति अवोचाम ; उक्तं भगवता यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः’ (भ. गी. २ । ६९) इतितस्मात् बाह्याकारभेदबुद्धिनिवृत्तिरेव आत्मस्वरूपावलम्बनकारणम् हि आत्मा नाम कस्यचित् कदाचित् अप्रसिद्धः प्राप्यः हेयः उपादेयो वा ; अप्रसिद्धे हि तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्येरन् देहाद्यचेतनार्थत्वं शक्यं कल्पयितुम् सुखार्थं सुखम् , दुःखार्थं दुःखम्आत्मावगत्यवसानार्थत्वाच्च सर्वव्यवहारस्यतस्मात् यथा स्वदेहस्य परिच्छेदाय प्रमाणान्तरापेक्षा, ततोऽपि आत्मनः अन्तरतमत्वात् तदवगतिं प्रति प्रमाणान्तरापेक्षा ; इति आत्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धा इति सिद्धम्

आत्मनः निराकारत्वात् तस्मिन् बुद्धः अप्रवृत्तेः सम्यग्ज्ञानानिष्ठा न सुसम्पाद्या इति मतम् उपस्थापयति -

केचित्त्विति ।

बहिर्मुखानाम् अन्तर्मुखानां वा ब्रह्मणि सम्यक् ज्ञाननिष्ठा दुःसाध्या इति विकल्प्य आद्यम् अनूद्य अङ्गीकरोति -

सत्यमिति ।

पूर्वपूर्वविशेषणम् उत्तरोत्तरविशेषणे हेतुत्वेन योजनीयम् ।

द्वितीयं दूषयति -

तद्विपरीतानामिति ।

अद्वैतनिष्ठानां द्वैतविषये सम्यग्बुद्धेः अतिशयेन दुःसम्पाद्यत्वे हेतुम् आह -

आत्मेति ।

तद्व्यतिरेकेण वस्त्वन्तरस्य असत्त्वं कथम् ? इति आशङ्क्य आह -

यथा च इति ।

अद्वैतमेव वस्तु, द्वैतं तु आविद्यकं, न अन्यया तात्त्विकम् इति एतत् एवमेव यया स्यात् तथा उक्तवन्तः वयं तत्र तत्र अध्यायेषु इति योजना ।

अन्तर्निष्ठानाम् अद्वैतदर्शिनां द्वैतं नास्ति सद्बुद्धिः इत्यत्र भगवतोऽपि संमतिम् आह -

उक्तञ्चेति ।

परमतं निराकृत्य प्रकृत उपसंहरन् आत्मनः निराकारत्वे ज्ञानस्य तदालम्बनत्वे किं कारणम् ? इति आशङ्क्य आह -

तस्मादिति ।

ननु आत्मा कथञ्चित् सम्यग्ज्ञानक्रियासाध्यश्चेत् तस्य हेयोपादेयान्यतरकोटिनिवेशात् प्राप्तं स्वर्गादिवत् क्रियासाध्यत्वेन अप्रसिद्धत्वम् । न, इत्याह -

नहीति ।

आत्मत्वादेव प्रसिद्धत्वेन प्राप्तत्वात् अनात्मवत् तस्य हेयोपादेयत्वयोः अयोगात् न क्रियासाध्यता इत्यर्थः ।

आत्मनश्चेत् ऋते क्रियाम् असिद्धत्वं, तदा सर्वप्रवृत्तीनाम् अभ्युदयनिःश्रेयसार्थानाम् आत्मार्थत्वायोगात् अर्थिनः अभावे स्वार्थत्वम् अप्रामाणिकं स्यात् इत्याह -

अप्रसिद्धे हीति ।

ननु प्रवृत्तीनां स्वार्थत्वं देहादीनाम् अन्यतमस्य अर्थित्वेन तादर्थ्यात्, इति आशङ्क्य घटादिवत् अचेतनस्य अर्थित्वायोगात् न एवम् इत्याह -

न चेति ।

ननु प्रवृत्तीनां फलावसायितया सुखदुःखयोः अन्यतरार्थत्वात् न स्वार्थत्वम् ? तत्राह -

न चेति ।

प्रवृत्तीनां सुखदुःखार्थत्वेऽपि तयोः स्वार्थत्वासिद्धेः अर्थित्वेन आत्मा सिध्यति इत्यर्थः ।

किञ्च सर्वापेक्षान्यायात् आत्मावगत्यवसानः सर्वः व्यवहारः । न च आत्मनि अप्रसिद्धे यज्ञादिव्यवहारस्य तज्ज्ञानार्थत्वं, तेन आत्मप्रसिद्धिः एष्टव्या इत्याह -

आत्मेति ।

ननु आत्मा अप्रसिद्धेऽपि प्रमाणद्वारा प्रसिध्यति । यत् सिध्यति, तत् प्रमाणादेव इति न्यायात् । तत्राह -

तस्मादिति ।

मानमेयादिसर्वव्यवहारस्य आत्मावगत्यत्वोपगमात् प्रागेव प्रमाणप्रवृत्तेः, आत्मप्रसिद्धेः एष्टव्यत्वात् इत्यर्थः ।

आत्मावगतेः एवं स्वाभाविकत्वे विवेकवताम् आरोपनिवृत्त्या ज्ञाननिष्ठा सुप्रसिद्धा इति उपसंहरति -

इत्यात्मेति ।