ननु अनाकारामेव अनुमिमीमहे बुद्धिम् इति वदताम् अनाकारं अप्रत्यक्षम् इच्छतां प्राक् अर्थावगतेः अप्रसिद्धमेव ज्ञानम् ? न, इत्याह -
येषामिति ।
सुखादिवत् ऩित्यानुभवगम्यं ज्ञानं न अनुमेयं विषयावगत्या तदनुमितौ इतरेतराश्रयात् इति भावः ।
इतश्च ज्ञानं प्रसिद्धम् , अन्यथा तत्र जिज्ञासाप्रसङ्गात् । न च ज्ञाने जिज्ञासा प्रसिद्धा । प्रसिद्धे च तदयोगात् , इत्याह -
जिज्ञासेति ।
तदेव प्रपञ्चयति -
अप्रसिद्धं चेदिति ।
दृष्टान्तमेव व्याचष्टे-
यथेति ।
दार्ष्टान्तिकं विवृणोति -
तथेति ।
इष्टापत्तिं निराचष्टे -
न चेति ।
ज्ञानस्य ज्ञानान्तरेण ज्ञेयत्वम् एतच्छब्दार्थः । अनवस्थापत्तेः इत्यर्थः ।
ज्ञाने जिज्ञासानुपपत्तौ फलितम् आह -
अत इति ।
प्रसिद्धेऽपि, ज्ञाने, ज्ञातरि आत्मनि किम् आयातम् ? तदाह -
ज्ञातापीति ।
ज्ञानस्य, विना ज्ञातारम् , अपर्यवसानात् इत्यर्थः ।
ज्ञानस्य प्रसिद्धत्वे तव भावनापर्यायः विधिः नास्ति इत्याह -
तस्मादिति ।
कुत्र तर्हि प्रयत्नाख्या भावना इति आशङ्क्य, आह -
किं त्विति ।
अविषये निराकारे च आत्मनि ज्ञाननिष्ठायाः दुस्सम्पाद्यत्वाभावे फलितं निगमयति -
तस्मादिति
॥ ५० ॥