ब्रह्मज्ञानस्य परां निष्ठां प्रतिष्ठापिताम् अनूद्य श्लोकान्तरं पृच्छति -
सेयमिति ।
या इयं ब्रह्मज्ञानस्य परा निष्ठा - समारोपितातद्धर्मनिवृत्तिद्वारा ब्रह्मणि परिसमाप्तिः ज्ञानसन्तानरूपा उच्यते, सा कार्या सुसम्पाद्या इति यत् उक्तं तत् कथं केन उपायेन ? इति प्रश्नार्थः ।