पृष्टं उपायभेदम् उदाहरति -
बुद्ध्येति ।
अध्यवसायः - ब्रह्मात्मत्वनिश्चयः । मायारहितत्वं - संशयविपर्ययशून्यत्वम् ।
शब्दादिसमस्तविषयत्यागे देहस्थितिरपि दुःस्था स्यात् इति आशङ्क्य, आह -
सामर्थ्यादिति ।
विषयमात्रत्यागे देहस्थित्यनुपपत्तेः ज्ञाननिष्ठाऽसिद्धिप्रसङ्गात् इत्यर्थः ।
देहस्थित्यर्थत्वेन अनुज्ञातेषु अर्थेषु प्राप्तं रागादि ज्ञाननिष्ठाप्रतिबन्धकं व्युदस्यति -
शरीरेति ।
परित्यज्य विविक्तसेवी स्यात् इति सम्बन्धः
॥ ५१ ॥