श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बुद्ध्या विशुद्धया युक्तो
धृत्यात्मानं नियम्य
शब्दादीन्विषयांस्त्यक्त्वा
रागद्वेषौ व्युदस्य ॥ ५१ ॥
बुद्ध्या अध्यवसायलक्षणया विशुद्धया मायारहितया युक्तः सम्पन्नः, धृत्या धैर्येण आत्मानं कार्यकरणसङ्घातं नियम्य नियमनं कृत्वा वशीकृत्य, शब्दादीन् शब्दः आदिः येषां तान् विषयान् त्यक्त्वा, सामर्थ्यात् शरीरस्थितिमात्रहेतुभूतान् केवलान् मुक्त्वा ततः अधिकान् सुखार्थान् त्यक्त्वा इत्यर्थः, शरीरस्थित्यर्थत्वेन प्राप्तेषु रागद्वेषौ व्युदस्य परित्यज्य ॥ ५१ ॥

पृष्टं उपायभेदम् उदाहरति -

बुद्ध्येति ।

अध्यवसायः - ब्रह्मात्मत्वनिश्चयः । मायारहितत्वं - संशयविपर्ययशून्यत्वम् ।

शब्दादिसमस्तविषयत्यागे देहस्थितिरपि दुःस्था स्यात् इति आशङ्क्य, आह -

सामर्थ्यादिति ।

विषयमात्रत्यागे देहस्थित्यनुपपत्तेः ज्ञाननिष्ठाऽसिद्धिप्रसङ्गात् इत्यर्थः ।

देहस्थित्यर्थत्वेन अनुज्ञातेषु अर्थेषु प्राप्तं रागादि ज्ञाननिष्ठाप्रतिबन्धकं व्युदस्यति -

शरीरेति ।

परित्यज्य विविक्तसेवी स्यात् इति सम्बन्धः

॥ ५१ ॥