नित्यं ध्यानयोगपरत्वे समुच्चितं कारणान्तरं विवृणोति -
अहङ्करणमिति ।
सामर्थ्यमात्रे बलशब्दात् उपलभ्यमाने किमिति विशेषवचनम् ? इति आशङ्क्य आह -
स्वाभाविकत्वेनेति ।
उक्ते अर्थं मानम् आह-
हृष्ट इति ।
वैराग्यशब्देन लब्धस्यापि कामत्यागस्य पुनः वचनं प्रकृष्टत्वख्यापनार्थम् ।
अहङ्कारादित्यागे परिग्रहप्राप्त्यभावात् तत्त्यागोक्तिः अयुक्ता इति आशङ्क्य, आह -
इन्द्रियेति ।
परिग्रहाभावे ममत्वविषयाभावात् निर्ममत्वं कथम् ? इति आशङ्क्य, आह -
देहेति ।
अहङ्कारममकारयोः अभावेन प्राप्ताम् अन्तःकरणोपरतिम् अनुवदति -
अत एवेति ।
उक्तम् अनूद्य जीवन्नेव असौ ब्रह्म भवति इति फलितम् आह -
यः संहृतेति ।
ज्ञाननिष्ठपदात् ऊर्ध्वं सशब्दो द्रष्टव्यः । ब्रह्मणः भवनम् अनुसन्धानपरिपाकपर्यन्तं साक्षात्करणं तदर्थम् इति यावत्
॥ ५३ ॥