अपेक्षितं पूरयन् उत्तरश्लोकम् अवतारयति -
अनेनेति ।
‘बुद्ध्या विशुद्धया’ (भ. गी. १८-५१) इत्यादिः अत्र क्रमः ब्रह्मप्राप्तः जीवन्नेव निवृत्ताशेषानर्थः निरतिशयानन्दं ब्रह्म आत्मत्वेन अनुभवन् इत्यर्थः । अध्यात्मं - प्रत्यगात्मा, तस्मिन् प्रसादः - सर्वानर्थनिवृत्त्या परमानन्दाविर्भावः, सः लब्धो येन जीवन्मुक्तेन, सः तथा ।