न शोचतीत्यादौ तात्पर्यम् आह -
ब्रह्मभूतस्येति ।
प्राप्तव्यपरिहार्याभावनिश्चयात् इत्यर्थः ।
स्वभावानुवादम् उपपादयति -
न हीति ।
तस्य अप्राप्तविषयाभावात् नापि परिहार्यापरिहारप्रयुक्तः शोकः, परिहार्यस्यैव अभावात् इत्यर्थः । पाठान्तरे तु, रमणीयं प्राप्य न प्रमोदते तदभावात् इत्यर्थः ।
विवक्षितं समदर्शनं विशदयति -
आत्मेति ।
ननु सर्वेषु भूतेषु आत्मनः समस्य निर्विशेषस्य दर्शनम् अत्र अभिप्रैतं किं न इष्यते ? तत्र आह-
नात्मेति ।
उक्तविशेषणवतः जीवन्मुक्तस्य ज्ञाननिष्ठा प्रागुक्तक्रमेण प्राप्ता सुप्रतिष्ठिता भवति इत्याह -
एवंभूतः इति ।
श्रवणमननिदिध्यासनवतः शमादियुक्तस्य अभ्यस्तैः श्रवणादिभिः ब्रह्मात्मनि अपरोक्षं मोक्षफलं ज्ञानं सिद्ध्यति इत्यर्थः । आर्तादिभक्तत्रयापेक्षया ज्ञानलक्षणा भक्तिः चतुर्थी इत्युक्ता ।
तत्र सप्तमस्थवाक्यम् अनुकूलयति -
चतुर्विधा इति
॥ ५४ ॥