श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥
सर्वकर्माण्यपि प्रतिषिद्धान्यपि सदा कुर्वाणः अनुतिष्ठन् मद्व्यपाश्रयः अहं वासुदेवः ईश्वरः व्यपाश्रयो व्यपाश्रयणं यस्य सः मद्व्यपाश्रयः मय्यर्पितसर्वभावः इत्यर्थःसोऽपि मत्प्रसादात् मम ईश्वरस्य प्रसादात् अवाप्नोति शाश्वतं नित्यं वैष्णवं पदम् अव्ययम् ॥ ५६ ॥

यद्यपि कस्यचित् कर्मानुष्ठायिनः बुद्धिशुद्धिद्वारा कैवल्यं सिद्ध्यति, तथापि पापबाहुल्यात् कर्मानुष्ठायिनोऽपि कस्यचित् बुद्धिशुद्ध्यभावे, कैवल्यासिद्धिः इति आशङ्क्य, आह -

सर्वकर्माणीति ।

सर्वशब्दानुरोधात् ईश्वराराधनस्तुतिपरत्वेन श्लोकं व्याचष्टे -

प्रतिषिद्धान्यपीति ।

नित्यनैमित्तिकवत् इति अपेः अर्थः ।

निषिद्धाचरणस्य प्रामादिकत्वं व्यावर्तयति -

सदेति ।

अनुतिष्ठन् वैष्णवं पदम् आप्नोति इति सम्बन्धः ।

पापकर्मकारिणः यथोक्तपदप्राप्तौ, पापस्यापि मोक्षफलत्वम् उपगतं स्यात् , इत्यत्र आह -

मद्व्यपाश्रय इति ।

तस्यैव तात्पर्यम् आह -

मयीति ।

तर्हि ज्ञानस्य मोक्षहेतुत्वम् उपेक्षितं स्यात् , इत्यत्र आह -

सोऽपीति ।

प्रसादः - अनुग्रहः - सम्यग्ज्ञानोदयः । पदं - पदमीयम् उपनिषत्तात्पर्यगम्यम् , अव्ययम् - अक्षयरहितम्

॥ ५६ ॥