श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स्वकर्मणा भगवतः अभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः फलं ज्ञाननिष्ठायोग्यता, यन्निमित्ता ज्ञाननिष्ठा मोक्षफलावसानासः भगवद्भक्तियोगः अधुना स्तूयते शास्त्रार्थोपासंहारप्रकरणे शास्त्रार्थनिश्चयदार्ढ्याय
स्वकर्मणा भगवतः अभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः फलं ज्ञाननिष्ठायोग्यता, यन्निमित्ता ज्ञाननिष्ठा मोक्षफलावसानासः भगवद्भक्तियोगः अधुना स्तूयते शास्त्रार्थोपासंहारप्रकरणे शास्त्रार्थनिश्चयदार्ढ्याय

तर्हि  ज्ञाननिष्ठस्यैव मोक्षसम्भवात् , न कर्मानुष्ठानसिद्धिः इति आशङ्क्य, आह -

स्वकर्मणेति ।

तामेव सिद्धिप्राप्तिं विशिनष्टि -

ज्ञानेति ।

ज्ञाननिष्ठायोग्यतायै स्वकर्मानुष्ठानं भगवदर्चनरूपं कर्तव्यम् इत्यर्थः ।

ज्ञाननिष्ठायोग्यतापि किमर्था ? इति आशङ्क्य, ज्ञाननिष्ठासिद्ध्यर्था इत्याह -

यन्निमित्तेति ।

ज्ञाननिष्ठापि कुत्र उपयुक्ता ? इत्यत्र आह -

मोक्षेति ।

स्वकर्मणा भगवदर्चनात्मनः भक्तियोगस्य परम्परया मोक्षफलस्य कार्यत्वेन विधेयत्वे विध्यपेक्षितां स्तुतिम् अवतारयति -

स भगवदिति ।

ज्ञाननिष्ठा कर्मनिष्ठा इति उभयं प्रतिज्ञाय तत्र तत्र विभागेन प्रतिपादितम् ।

किमिति इदानीं कर्मनिष्ठा पुनः स्तुत्या कर्तव्यतया उच्यते ? तत्र आह-

शास्त्रार्थेति ।

तत्र तत्र उक्तस्यैव कर्मानुष्ठानस्य प्रकरणवशात् इह उपसंहारः । स च शास्त्रीार्थनिश्चयस्य दृढतां द्योतयति इत्यर्थः ।