श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भक्त्या मामभिजानाति
यावान्यश्चास्मि तत्त्वतः
ततो मां तत्त्वतो ज्ञात्वा
विशते तदनन्तरम् ॥ ५५ ॥
अत्र सर्वं निवृत्तिविधायि शास्त्रं वेदान्तेतिहासपुराणस्मृतिलक्षणं न्यायप्रसिद्धम् अर्थवत् भवतिविदित्वा . . . व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९) न्यास एवात्यरेचयत्’ (तै. ना. ७८) इतिसंन्यासः कर्मणां न्यासः’ ( ? ) वेदानिमं लोकममुं परित्यज्य’ (आ. ध. २ । ९ । १३) त्यज धर्ममधर्मं ’ (मो. ध. ३२९ । ४०) इत्यादिइह प्रदर्शितानि वाक्यानि तेषां वाक्यानाम् आनर्थक्यं युक्तम् ; अर्थवादत्वम् , स्वप्रकरणस्थत्वात् , प्रत्यगात्माविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य हि पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा समानमार्गत्वं सम्भवतिप्रत्यगात्मविषयप्रत्ययसन्तानकरणाभिनिवेशश्च ज्ञाननिष्ठा ; सा प्रत्यक्समुद्रगमनवत् कर्मणा सहभावित्वेन विरुध्यतेपर्वतसर्षपयोरिव अन्तरवान् विरोधः प्रमाणविदां निश्चितःतस्मात् सर्वकर्मसंन्यासेनैव ज्ञाननिष्ठा कार्या इति सिद्धम् ॥ ५५ ॥

औपदेशिकैक्यज्ञानस्य सर्वकर्मसंन्याससहितस्य स्वरूपावस्थानात्मकस्य परमपुरुषार्थौपयिकत्वम् इति अस्मिन् अर्थे मानम् आह -

अत्र चेति ।

तदेव शास्त्रम् उदाहरति -

विदित्वेत्यादिना ।

दर्शितानि वाक्यानि - ‘सर्वकर्माणि मनसा’ (भ. गी. ५-१३) इत्यादीनि ।

ननु एषां वाक्यानाम् अविवक्षितार्थत्वत् नास्ति स्वार्थे प्रामाण्यम् इति आशङ्क्य अध्ययनविध्युपात्तत्वात् वेदवाक्यान्तं तदनुरोधित्वाच्च इतरेषां नैवम् इत्याह -

न चेति ।

तथापि ‘सोऽरोदीत् ‘  इत्यादिवत् न स्वार्थे मानता इति आशङ्क्य आह -

न चार्थवादत्वमिति ।

इतश्च मुमुक्षोः अपेक्षितमोक्षौपयिकज्ञाननिष्ठस्य संन्यासे अधिकारः, न कर्मनिष्ठायाम् इत्याह -

प्रत्यगिति ।

ज्ञाननिष्ठस्य कर्मनिष्ठा विरुद्धा इत्यत्र दृष्टान्तम् आह -

न हीति ।

ज्ञाननिष्ठास्वरूपानुवादपूर्वकं कर्मनिष्ठया तस्याः सहभावित्वं विरुद्धम् इति दार्ष्टान्तिकम् आह -

प्रत्यगात्मेति ।

कथं ज्ञानकर्मणोः विरोधधीः ? इति आशङ्क्य, कर्मणां ज्ञाननिवर्त्यत्वस्य श्रुतिस्मृतिसिद्धत्वात् इत्याह -

पर्वतेति ।

अन्तरवान् उभयोः एकधर्मिनिष्ठत्वेन साङ्कर्याभावसम्पादकभेदवान् इत्यर्थः ।

ज्ञानकर्मणोः असमुच्चये फलितम् उपसंहरति -

तस्मादिति

॥ ५५ ॥