ज्ञाननिष्ठया परया भक्त्या माम् अभिजानाति इत्युक्तम् आक्षिपति -
नन्विति ।
विरुद्धत्वं स्फोरयितुं पृच्छति -
कथमिति ।
विरोधस्फुटीकरणं प्रतिजानीते-
उच्यते इति ।
तत्र ज्ञानस्य उत्पत्तिरेव विषयाभिव्यक्तिः इत्याह -
यदेति ।
एवकारनिरस्यं दर्शयति -
न ज्ञानेति ।
इति आवयोः सिद्धम् इति शेषः ।
ज्ञानस्य उत्पत्तेरेव विषयाभिव्यक्तित्वे कथं प्रकृते विरोधधीः इति आशङ्क्य आह -
ततश्चेति ।
विरुद्धमिति शेषः ।
शङ्कितं विरोधं निरस्यति -
नैष दोष इति ।
उक्तमेव हेतुं प्रपञ्चयति -
शास्त्रेति ।
यो हि शास्त्रानुसारी आचार्योपदेशः, तेन ज्ञानोत्पत्तिः । ‘आचार्यवान् पुरुषो वेद’ (छा. उ. ६-१४-२) इति श्रुतेः । तस्याश्च परिपाकः संशयादिप्रतिबन्धध्वंसः तत्र हेतुभूतम् उपदेशस्यैव सहकारिकारणं यत् बुद्धिशुद्ध्यादि, तत् अपेक्ष्य, तस्मादेव उपदेशात् जनितं यत् ऐक्यज्ञानं तस्य कारकभेदबुद्धिनिबन्धनानि यानि सर्वाणि कर्माणि, तेषां संन्यासेन सहितस्य, फलरूपेण स्वात्मन्येव सर्वप्रकल्पनारहिते यत् अवस्थानं, सा ज्ञानस्य परा निष्ठा इति व्यवह्रियते प्रामाणिकैः इति अर्थः ।
यदि यथोक्ता परा ज्ञानष्ठिा, कथं तर्हि सा चतुर्थी भक्तिः इति उक्ता ? इति, तत्राह -
सेयमिति ।
यथोक्तया भक्त्या भगवत्तत्त्वज्ञानं सिद्ध्यति इत्याह -
तयेति ।
तत्त्वज्ञानस्य फलम् आह -
यदनन्तरमिति ।
ज्ञाननिष्ठारूपायाः भगवद्भक्तेः तत्त्वज्ञानानतिरेकात् तत्फलस्य च अज्ञाननिवृत्तेः तन्मात्रत्वात् भेदोक्तेश्च औपचारिकत्वात् प्रकृतं वाक्यम् अविरुद्धम् इति उपसंहरति -
अत इति ।