श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भक्त्या मामभिजानाति
यावान्यश्चास्मि तत्त्वतः
ततो मां तत्त्वतो ज्ञात्वा
विशते तदनन्तरम् ॥ ५५ ॥
भक्त्या माम् अभिजानाति यावान् अहम् उपाधिकृतविस्तरभेदः, यश्च अहम् अस्मि विध्वस्तसर्वोपाधिभेदः उत्तमः पुरुषः आकाशकल्पः, तं माम् अद्वैतं चैतन्यमात्रैकरसम् अजरम् अभयम् अनिधनं तत्त्वतः अभिजानातिततः माम् एवं तत्त्वतः ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानानन्तरम्नात्र ज्ञानप्रवेशक्रिये भिन्ने विवक्षितेज्ञात्वा विशते तदनन्तरम्इतिकिं तर्हि ? फलान्तराभावात् ज्ञानमात्रमेव, क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इति उक्तत्वात्

तदेव ज्ञानं भक्तिपराधीनं विवृणोति -

यावानिति ।

आकाशकल्पत्वम् अनवच्छिन्नत्वम् असङ्गत्वं च ।

चैतन्यस्य विषयसापेक्षत्वं प्रतिक्षिपति -

अद्वैतमिति ।

ये तु द्रव्यबोधात्मत्वम् आत्मनः मन्यन्ते, तान् प्रति उक्तं -

चैतन्यमात्रेति ।

आत्मनि तन्मात्रेऽपि धर्मान्तरम् उपेत्य धर्मधर्मित्वं प्रत्याह -

एकरसमिति ।

सर्वविक्रियाराहित्योक्त्या कौटस्थ्यम् आत्मनः व्यवस्थापयति -

अजमिति ।

उक्तविक्रियाभावे तद्धेत्वज्ञानासम्बन्धं हेतुम् आह -

अभयमिति ।

तत्त्वज्ञानम् अनूद्य तत्फलं विदेहकैवल्यं लम्भयति -

तत इति ।

तत्त्वज्ञानस्य तस्मात् अनन्तरप्रवेशक्रियायाश्च भिन्नत्वं प्राप्तं प्रत्याह -

नात्रेति ।

भिन्नत्वाभावे का गतिः भेदोक्तेः, इति आशङ्क्य, औपचारिकत्वम् आह-

किं तर्हीति ।

प्रवेशः इति शेषः ।

ब्रह्मप्राप्तिरेव फलान्तरम् इति आशङ्क्य ब्रह्मात्मनोः भेदाभावात् न ज्ञानातिरिक्ता तत्प्राप्तिः इत्याह -

क्षेत्रज्ञं चेति ।