अर्जुनशब्दस्य उक्तार्थत्वे श्रुतिम् उदाहरति -
अहश्चेति ।
‘अहश्च कृष्णम् अहरर्जुनं च विवर्तेते रजसी वेद्याभिः । ‘ इत्यत्र किञ्चित् अहः तावत् कृष्णं - अस्वच्छं कलुषितमिव लक्ष्यते, किञ्चित् पुनः अहः अर्जुनं - अतिस्वच्छं शुद्धस्वभावम् उपलभ्यते । एवम् अर्जुनशब्दस्य शुक्लशब्दपर्यायतया प्रयोगदर्शनात् उक्तार्थत्वम् उचितम् इत्यर्थः ।
यन्त्रारूढानीव इति कथम् उच्यते ? तत्राह -
इव शब्द इति ।
तदेव प्रपञ्चयति -
यथेति ।
दारुमयानि यन्त्राणि यथा लौकिकः मायावी मायया भ्रामयन् वर्तते, तथा ईश्वरोऽपि सर्वाणि भूतानि भ्रामयन्नेव हृदये तिष्ठति इत्यर्थः ॥ ६१ ॥