श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तमेव शरणं गच्छ
सर्वभावेन भारत
तत्प्रसादात्परां शान्तिं
स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
तमेव ईश्वरं शरणम् आश्रयं संसारार्तिहरणार्थं गच्छ आश्रय सर्वभावेन सर्वात्मना हे भारतततः तत्प्रसादात् ईश्वरानुग्रहात् परां प्रकृष्टां शान्तिम् उपरतिं स्थानं मम विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम् ॥ ६२ ॥

ईश्वरः सर्वाणि भूतानि प्रेरयति चेत् प्राप्तकैवल्यस्यापि पुरुषकारस्य आनर्थक्यम् इति आशङ्क्य आह -

तमेवेति ।

सर्वात्मना - मनोवृत्त्या वाचा कर्मणा च इत्यर्थः । ईश्वरस्य अनुग्रहात् तत्त्वज्ञानोत्पत्तिपर्यन्तात् इति शेषः । मुक्ताः तिष्ठन्ति अस्मिन् इति स्थानम्

॥ ६२ ॥