श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
इति एतत् ते तुभ्यं ज्ञानम् आख्यातं कथितं गुह्यात् गोप्यात् गुह्यतरम् अतिशयेन गुह्यं रहस्यम् इत्यर्थः, मया सर्वज्ञेन ईश्वरेणविमृश्य विमर्शनम् आलोचनं कृत्वा एतत् यथोक्तं शास्त्रम् अशेषेण समस्तं यथोक्तं अर्थजातं यथा इच्छसि तथा कुरु ॥ ६३ ॥

शास्त्रम् उपसंहर्तुम् इच्छन् आह -

इति ते ज्ञानमिति ।

ज्ञानं - करणव्युत्पत्त्या गीताशास्त्रीं, यथा इच्छसि, तथा कुरु, ज्ञानं कर्म वा यत् इष्टं तत् अनुतिष्ठ इत्यर्थः

॥ ६३ ॥