श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मन्मना भव मद्भक्तो
मद्याजी मां नमस्कुरु
मामेवैष्यसि सत्यं ते
प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥
मन्मनाः भव मच्चित्तः भव । मद्भक्तः भव मद्भजनो भव । मद्याजी मद्यजनशीलो भव । मां नमस्कुरु नमस्कारम् अपि ममैव कुरु । तत्र एवं वर्तमानः वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनः मामेव एष्यसि आगमिष्यसि । सत्यं ते तव प्रतिजाने, सत्यां प्रतिज्ञां करोमि एतस्मिन् वस्तुनि इत्यर्थः ; यतः प्रियः असि मे । एवं भगवतः सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यंभावि मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति वाक्यार्थः ॥ ६५ ॥

उत्तरार्धं व्याचष्टे -

तत्रेति ।

एवम् उक्तया रीत्या वर्तमानः त्वं तस्मिन्नेव वासुदेवे भगवति अर्पितसर्वभावः मामेव आगमिष्यसि इति सम्बन्धः ।

सत्यप्रतिज्ञाकरणे हेतुम् आह -

यत इति ।

इदानीं वाक्यार्थं श्रेयोऽथिनां प्रवृत्त्युपयोगित्वेन सङ्गृह्णाति -

एवमिति ।

॥ ६५ ॥