श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
कर्मयोगनिष्ठायाः परमरहस्यम् ईश्वरशरणताम् उपसंहृत्य, अथ इदानीं कर्मयोगनिष्ठाफलं सम्यग्दर्शनं सर्ववेदान्तसारविहितं वक्तव्यमिति आह —

वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह-

कर्मयोगेति ।