श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
सर्वधर्मान् सर्वे च ते धर्माश्च सर्वधर्माः तान् — धर्मशब्देन अत्र अधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात् , ‘नाविरतो दुश्चरितात्’ (क. उ. १ । २ । २४) ‘त्यज धर्ममधर्मं च’ (मो. ध. ३२९ । ४०) इत्यादिश्रुतिस्मृतिभ्यः — सर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणि इत्येतत् । माम् एकं सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं गर्भजन्मजरामरणवर्जितम् ‘अहमेव’ इत्येवं शरणं व्रज, न मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थः । अहं त्वा त्वाम् एवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेन । उक्तं च ‘नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता’ (भ. गी. १० । ११) इति । अतः मा शुचः शोकं मा कार्षीः इत्यर्थः ॥

धर्मविशेषणात् अधर्मानुज्ञां वारयति -

धर्मेति ।

ज्ञाननिष्ठेन मुमुक्षुणा धर्माधर्मयोः त्याज्यत्वे श्रुतिस्मृती उदाहरति -

नाविरत इति ।

‘मामेकं’ इत्यादेः तात्पर्यम् आह -

न मत्तः अन्यदिति ।

अर्जुनस्य क्षत्रियत्वात् उक्तसंन्यासद्वारा ज्ञाननिष्ठायां मुख्यानधिकारेऽपि तं पुरस्कृत्य अधिकारिभ्यः तस्य उपदिदिक्षितत्वात् अविरोधम् अभिप्रेत्य आह -

अहं त्वेति ।

उक्तेऽर्थे दाशमिकं वाक्यम् अनुकूलयति -

उक्तं चेति ।

ईश्वरस्य त्वदीयबन्धनिरसनद्वारा त्वत्पालयितृत्वात् न ते शोकावकाशः अस्ति इत्याह -

अत इति