श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
आत्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वम् , भेदप्रत्ययनिवर्तकत्वेन कैवल्यफलावसायित्वात् । क्रियाकारकफलभेदबुद्धिः अविद्यया आत्मनि नित्यप्रवृत्ता — ‘मम कर्म, अहं कर्तामुष्मै फलायेदं कर्म करिष्यामि’ इति इयम् अविद्या अनादिकालप्रवृत्ता । अस्या अविद्यायाः निवर्तकम् ‘अयमहमस्मि केवलोऽकर्ता अक्रियोऽफलः ; न मत्तोऽन्योऽस्ति कश्चित्’ इत्येवंरूपम् आत्मविषयं ज्ञानम् उत्पद्यमानम् , कर्मप्रवृत्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्वात् । तु - शब्दः पक्षव्यावृत्त्यर्थः — न केवलेभ्यः कर्मभ्यः, न च ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रेयसप्राप्तिः इति पक्षद्वयं निवर्तयति । अकार्यत्वाच्च निःश्रेयसस्य कर्मसाधनत्वानुपपत्तिः । न हि नित्यं वस्तु कर्मणा ज्ञानेन वा क्रियते । केवलं ज्ञानमपि अनर्थकं तर्हि ? न, अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात् । अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टं कैवल्यफलावसानत्वम् , रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत् । विनिवृत्तसर्पादिविकल्परज्जुकैवल्यावसानं हि प्रकाशफलम् ; तथा ज्ञानम् । दृष्टार्थानां च च्छिदिक्रियाग्निमन्थनादीनां व्यापृतकर्त्रादिकारकाणां द्वैधीभावाग्निदर्शनादिफलात् अन्यफले कर्मान्तरे वा व्यापारानुपपत्तिः यथा, तथा दृष्टार्थायां ज्ञाननिष्ठाक्रियायां व्यापृतस्य ज्ञात्रादिकारकस्य आत्मकैवल्यफलात् कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता उपपद्यते । भुज्यग्निहोत्रादिक्रियावत्स्यात् इति चेत् , न ; कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः । कैवल्यफले हि ज्ञाने प्राप्ते, सर्वतःसम्प्लुतोदकफले कूपतटाकादिक्रियाफलार्थित्वाभाववत् , फलान्तरे तत्साधनभूतायां वा क्रियायाम् अर्थित्वानुपपत्तिः । न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले व्यापारः उपपद्यते, तद्विषयं वा अर्थित्वम् । तस्मात् न कर्मणोऽस्ति निःश्रेयससाधनत्वम् । न च ज्ञानकर्मणोः समुच्चितयोः । नापि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्यापेक्षा, अविद्यानिवर्तकत्वेन विरोधात् । न हि तमः तमसः निवर्तकम् । अतः केवलमेव ज्ञानं निःश्रेयससाधनम् इति । न ; नित्याकरणे प्रत्यवायप्राप्तेः, कैवल्यस्य च नित्यत्वात् । यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिः इत्येतत् , तत् असत् ; यतः नित्यानां कर्मणां श्रुत्युक्तानाम् अकरणे प्रत्यवायः नरकादिप्राप्तिलक्षणः स्यात् । ननु एवं तर्हि कर्मभ्यो मोक्षो नास्ति इति अनिर्मोक्ष एव । नैष दोषः ; नित्यत्वात् मोक्षस्य । नित्यानां कर्मणाम् अनुष्ठानात् प्रत्यवायस्य अप्राप्तिः, प्रतिषिद्धस्य च अकरणात् अनिष्टशरीरानुपपत्तिः, काम्यानां च वर्जनात् इष्टशरीरानुपपत्तिः, वर्तमानशरीरारम्भकस्य च कर्मणः फलोपभोगक्षये पतिते अस्मिन् शरीरे देहान्तरोत्पत्तौ च कारणाभावात् आत्मनः रागादीनां च अकरणे स्वरूपावस्थानमेव कैवल्यमिति अयत्नसिद्धं कैवल्यम् इति । अतिक्रान्तानेकजन्मान्तरकृतस्य स्वर्गनरकादिप्राप्तिफलस्य अनारब्धकार्यस्य उपभोगानुपपत्तेः क्षयाभावः इति चेत् , न ; नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः । प्रायश्चित्तवद्वा पूर्वोपात्तदुरितक्षयार्थं नित्यं कर्म । आरब्धानां च कर्मणाम् उपभोगेनैव क्षीणत्वात् अपूर्वाणां च कर्मणाम् अनारम्भे अयत्नसिद्धं कैवल्यमिति । न ; ‘तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति विद्याया अन्यः पन्थाः मोक्षाय न विद्यते इति श्रुतेः, चर्मवदाकाशवेष्टनासम्भववत् अविदुषः मोक्षासम्भवश्रुतेः, ‘ज्ञानात्कैवल्यमाप्नोति’ ( ? ) इति च पुराणस्मृतेः ; अनारब्धफलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्च । यथा पूर्वोपात्तानां दुरितानाम् अनारब्धफलानां सम्भवः, तथा पुण्यानाम् अनारब्धफलानां स्यात्सम्भवः । तेषां च देहान्तरम् अकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः । धर्माधर्महेतूनां च रागद्वेषमोहानाम् अन्यत्र आत्मज्ञानात् उच्छेदानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिः । नित्यानां च कर्मणां पुण्यफलत्वश्रुतेः, ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः’ (गौ. ध. सू. २ । २ । २९) इत्यादिस्मृतेश्च कर्मक्षयानुपपत्तिः ॥
आत्मेति ; क्रियेति ; आत्मनीति ; ममेति ; अनादीति ; अस्या इति ; उत्पद्यमानम् इति ; कर्मेति ; तुशब्द इति ; नेत्यादिना ; अकार्यत्वाच्चेति ; न हीति ; केवलेति ; नेति ; अविद्येति ; रज्ज्वादीति ; विनिवृत्तेति ; तथेति ; दृष्टार्थायामिति ; भुजीति ; नेत्यादिना ; कैवल्येति ; सर्वत इति ; न हीति ; तस्मान्नेति ; न चेति ; नापीति ; अविद्येति ; न हीति ; अत इति ; नेत्यादिना ; यत्तावदिति ; नन्विति ; नैष दोष इति ; नित्यानामिति ; काम्यानां चेति ; वर्तमानेति ; पतितेऽस्मिन् इति ; रागादीनां चेति ; अतिक्रान्तेति ; नेति ; नित्येति ; प्रायश्चित्तवदिति ; आरब्धानां चेति ; अपूर्वाणां चेति ; नेत्यादिना ; अन्यइति ; चर्मवदिति ; ज्ञानादिति ; अनारब्धेति ; यथेति ; तेषां चेति ; धर्मेति ; नित्यानामिति ; वर्णा इति ;

एवं विचारम् अवतार्य सिद्धान्तं सङ्गृह्णाति -

आत्मेति ।

सङ्ग्रहवाक्यं विवृण्वन् आदौ आत्मज्ञानापोह्याम् अविद्यां दर्शयति-

क्रियेति ।

आश्रयोक्त्या तदनादित्वम् आह -

आत्मनीति ।

तमेव अविद्याम् अनाद्यविद्योत्थाम् अनर्थात्मिकां प्रपञ्चयति -

ममेति ।

अनाद्यविद्याकार्यत्वात् प्रवाहरूपेण अनादित्वम् अस्याः विवक्षित्वा विशिनष्टि -

अनादीति ।

तत्र कारणाविद्यानिवर्तकत्वम् आत्मज्ञानस्य उपन्यस्यति-

अस्या इति ।

ननु न इदम् उत्पन्नं ज्ञानं निवर्तयति, अविरोधेन उत्पन्नत्वात् । न च अनुत्पन्नम् , अलब्धात्मकस्य अर्थक्रियाकारित्वाभावत् । तत्र आह -

उत्पद्यमानम् इति ।

कथं तस्य कारणाविद्यानिवर्तकत्वम् इति आशङक्य कार्याविद्यानिवर्तकत्वदृष्टेः इत्याह -

कर्मेति ।

आत्मज्ञानस्य इत्यादिसङ्ग्रहवाक्ये तुशब्दद्योत्यविशेषाभावात् तदानर्थक्यम् आशङ्क्य, आह -

तुशब्द इति ।

पक्षद्वयव्यावर्तकत्वम् एव अस्य स्फुटयति -

नेत्यादिना ।

इतश्च कर्मासाध्यता मुक्तेः इत्याह -

अकार्यत्वाच्चेति ।

‘एष नित्यो महिमा’ इति श्रुतेः नित्यत्वेन मोक्षस्य अकार्यत्वात् न तत्र हेत्वपेक्षा इति उपपादयति -

न हीति ।

ज्ञानेनापि मोक्षः न क्रियते चेत् , तर्हि केवलमपि ज्ञानं मुक्त्यनुपयुक्तम् इति, कुतः तस्य हेतुत्वधीः ? इति आशङ्कते-

केवलेति ।

ज्ञानानर्थक्यं दूषयति -

नेति ।

तदेव प्रपञ्चयति -

अविद्येति ।

यत् उक्तम् अविद्यानिवर्तकज्ञानस्य कैवल्यफलावसायित्वं दृष्टम् इति, तत्र दृष्टान्तम् आह -

रज्ज्वादीति ।

उक्ते विषये तमोनिवर्तकप्रकाशस्य कस्मिन् फले पर्यवसानम् ? तत्र आह-

विनिवृत्तेति ।

प्रदीपप्रकाशस्य सर्पभ्रमनिवृत्तिद्वारा रज्जुमात्रे पर्यवसानवत् आत्मज्ञानस्यापि तदविद्यानिवृत्त्यात्मकैवल्यावसानमिति दार्ष्टान्तिकम् आह -

तथेति ।

ज्ञात्रादीनां ज्ञाननिष्ठाहेतूनां कर्मान्तरे प्रवृत्तिसम्भवात् , कर्मसहितैव सा कैवल्यावसायिनी, इति चेत् तत्र आह -

दृष्टार्थायामिति ।

कर्मसाहित्यं, ज्ञाननिष्ठायाः, दृष्टान्तेन साधयन् आशङ्कते -

भुजीति ।

भुजिक्रिायाः लौकिक्याः, वैदिक्याश्च अग्निहोत्रादिक्रियायाः सहानुष्ठानवत् अग्निहोत्रादिक्रियायाः ज्ञाननिष्ठायाश्च साहित्यम् इत्यर्थः । भुजिफले तृप्त्याख्ये प्राप्तेऽपि, स्वर्गादौ च अग्निहोत्रादौ अर्थित्वदृष्टेः युक्तं तत्र साहित्यम् । न तथा मुक्तिफलज्ञाननिष्ठालाभे, स्वर्गादौ तद्धेतौ वा कर्मणि अर्थित्वम् ।

तेन ज्ञाननिष्ठाकर्मणोः न साहित्यम् इति परिहरति -

नेत्यादिना ।

सङ्ग्रहवाक्यं विवृणोति -

कैवल्येति ।

ज्ञाने फलवति लब्धे, फलान्तरे तद्धेतौ च न अर्थिता, इत्यत्र दृष्ठान्तम् आह -

सर्वत इति ।

सर्वत्र सम्प्लुतं व्याप्तम् उदकम् इति समु्द्रोक्तिः । तत्फलं स्नानादि । तस्मिन् प्राप्ते, न तडागादिनिर्माणक्रियायां, तदधीने च स्नानादौ कस्यचित् अर्थित्वम् , तथा प्रकृतेऽपि, इत्यर्थः ।

निरतिशयफले ज्ञाने लब्धे, सातिशयफले कर्मणि न अर्थित्वम् इत्येतत् दृष्टान्तेन स्फुटयति-

न हीति ।

कर्मणः सातिशयफलत्वम् उक्तम् उपजीव्य फलितम् आह-

तस्मान्नेति ।

ज्ञानकर्मणोः साहित्यासम्भवमपि पूर्वोक्तं निगमयति -

न चेति ।

न हि प्रकाशतमसोरिव मिथः विरुद्धयोः तयोः साक्षात् एकस्मिन् फले साहित्यम् इत्यर्थः ।

ननु ज्ञानमेव मोक्षं साधयत्  आत्मसहायत्वेन कर्म अपेक्षते, करणस्य उपकरणापेक्षत्वात् । तत्र आह -

नापीति ।

ज्ञानम् उत्पत्तौ यज्ञाद्यपेक्षमपि, न उत्पन्नं फले तदपेक्षम् । स्वोत्पत्तिनान्तरीयकत्वेन मुक्तेः तन्मात्रायत्तत्वात् इत्यर्थः ।

यत् उक्तम् इतिकर्तव्यत्वेन ज्ञानं  कर्मापेक्षम् इति, तत्र आह -

अविद्येति ।

ज्ञानस्य अज्ञाननिवर्तकत्वात्  , तत्र कर्मणः विरुद्धतया सहकारित्वायोगात् न फले तदपेक्षा इत्यर्थः ।

कर्मणोऽपि ज्ञानवत् अज्ञाननिवर्तकत्वे कुतः विरुद्धता ? इति आशङ्क्य, आह -

न हीति ।

केवलस्य समुच्चितस्य वा कर्मंणः मोक्षे साक्षात् अनन्वये फलितम् आह -

अत इति ।

केवलं ज्ञानं मुक्तिसाधनम् इति उक्तम् । तत् निषेधयन् आशङ्कते -

नेत्यादिना ।

निषेध्यम् अनूद्य नञर्थम् आह -

यत्तावदिति ।

नित्यानुष्ठानस्य आवश्यकत्वात् न केवलज्ञानस्य कैवल्यहेतुता इत्यर्थः ।

कैवल्यस्य च नित्यत्वात् इत्यस्य व्यावर्त्यं दर्शयति -

नन्विति ।

यदि नित्यनैमित्तिककर्माणि श्रौतानि, अकरणे प्रत्यवायकारीणि अवश्यानुष्ठेयानि, एवं तर्हि तेभ्यः समुच्चितेभ्यः असमुच्चितेभ्यश्च मोक्षः न इति उक्तत्वात् केवलज्ञानस्य च अतद्धेतुत्वात् अनिबन्धना मुक्तिः न सिध्येत् इत्यर्थः ।

कैवल्यस्य च इत्यादि व्याकुर्वन् अनिर्मोक्षप्रसङ्गं प्रत्यादिशति-

नैष दोष इति ।

मुक्तेः नित्यत्वेन अयत्नसिद्धेः न तदभावशङ्का इत्युक्तं प्रपञ्चयति -

नित्यानामिति ।

काम्यकर्मवशात् इष्टशरीरापत्तिं शङ्कित्वा उक्तम् -

काम्यानां चेति ।

आरब्धकर्मवशात् तर्हि देहान्तरं न इत्याह -

वर्तमानेति ।

तर्हि देहान्तरं शेषकर्मणा स्यात् , इति आशङ्क्य कर्माशयस्य ऐकभविकत्वात् न इत्याह -

पतितेऽस्मिन् इति ।

रागादिना कर्मान्तरं, ततः देहान्तरं च भविष्यति इति आशङ्क्य आह -

रागादीनां चेति ।

आत्मनः स्वरूपावस्थानम् इति सम्बन्धः ।

अतीतासङ्ख्यजन्मभेदेषु अर्जितस्य कर्मणः नानाफलस्य अनारब्धस्य भोगेन विना अक्षयात् , ततः देहान्तरारम्भात् , ऐकभविकत्वस्य अप्रामाणिकत्वात् न मुक्तेः अयत्नसिद्धता इति चोदयति -

अतिक्रान्तेति ।

न उक्तकर्मनिमित्तं देहान्तरं शङ्कितव्यम् इत्याह -

नेति ।

नित्यनैमित्तिककर्माणि श्रौतानि अवश्यम् अनुष्ठेयानि । तदनुष्ठाने च महान् आयासः । ततः दुःखोपभोगः ।

तस्य उक्तानारब्धकर्मफलभोगत्वोपगमात् न ततः देहान्तरम् इत्याह-

नित्येति ।

नित्यादिना दुरितनिवृत्तावपि अविरोधात् न सुकृतनिवृत्तिः, ततः देहान्तरम् इति आशङ्क्य, सुकृतस्य नित्यादेः अन्यत्वे अनारब्धत्वे च, न्यायविरुद्धस्य तस्य असिद्धत्वात् ततः देहान्तरायोगात् नित्यादेः अनन्यत्वे च न तस्य फलान्तरम् इति मत्वा, यथा प्रायश्चित्तम् उपात्तदुरितनिबर्हणार्थं, न फलान्तरापेक्षं, तथा इदं सर्वमपि नित्यादिकर्म उपात्तपापनिराकरणार्थं तस्मिन्नेव पर्यवस्यत् न देहान्तरारम्भकम् इति पक्षान्तरम् आह -

प्रायश्चित्तवदिति ।

तथापि प्रारब्धवशादेव देहान्तरं शङ्क्यते, नानाजन्मारम्भकाणामपि तेषां यावदधिकारन्यायेन सम्भवात् , इति आशङ्क्य आह -

आरब्धानां चेति ।

पूर्वार्जितकर्मणाम् एवं क्षीणत्वेऽपि, कानिचित् अपूर्वकर्माणि देहान्तरम् आरभेरन् इति आशङ्क्य आह -

अपूर्वाणां चेति ।

विना ज्ञानं कर्मणैव मुक्तिः इति पक्षं श्रुत्यवष्टम्भेन निराचष्ठे-

नेत्यादिना ।

विद्यते अयनाय इति श्रुतेः इति सम्बन्धः ।

एवकारार्थं विवृण्वन् नेत्यादिभागं व्याकरोति -

अन्यइति ।

“यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।“
इति श्रुतिम् अर्थतः अनुवदति -

चर्मवदिति ।

श्रौतार्थे स्मृतिं संवादयति -

ज्ञानादिति ।

किञ्च त्वदीयन्यायस्य अनुग्राह्यमानहीनत्वेन आभासतया पुण्यकर्मणाम् अनारब्धफलानां क्षयाभावे देहान्तरारम्भसम्भावत् न ज्ञानं विना मुक्तिः इत्याह -

अनारब्धेति ।

तथाविधानां कर्मणां नास्ति सम्भावना इति आशङ्क्य अह -

यथेति ।

अनारब्धफलपुण्यकर्माभावेऽपि कथं मोक्षानुपपत्तिः ? इति तत्र आह -

तेषां चेति ।

इतश्च कर्मक्षयानुपपत्त्या मोक्षानुपपत्तिः, इति तत्र आह -

धर्मेति ।

‘कर्मणा पितृलोकः’ (बृ. उ. १-५-१६) इति श्रुतिम् आश्रित्य कर्माक्षये हेत्वन्तरम् आह -

नित्यानामिति ।

स्मृत्यापि यथोक्तम् अर्थं समर्थयति -

वर्णा इति ।

प्रेत्य कर्मफलम् अनुभूय, ततः शेषेण विशिष्टजात्यादिभाजः जन्म प्रतिपद्यन्ते इति एतदादिपदार्थः ।