श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
ये तु आहुः — नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृतदुरितकर्मणां फलमेव, न तु तेषां स्वरूपव्यतिरेकेण अन्यत् फलम् अस्ति, अश्रुतत्वात् , जीवनादिनिमित्ते च विधानात् इति । न अप्रवृत्तानां कर्मणां फलदानासम्भवात् ; दुःखफलविशेषानुपपत्तिश्च स्यात् । यदुक्तं पूर्वजन्मकृतदुरितानां कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति, तदसत् । न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः । अन्यथा स्वर्गफलोपभोगाय अग्निहोत्रादिकर्मारब्धे जन्मनि नरकफलोपभोगानुपपत्तिः न स्यात् । तस्य दुरितस्य दुःखविशेषफलत्वानुपपत्तेश्च — अनेकेषु हि दुरितेषु सम्भवत्सु भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्रफलेषु कल्प्यमानेषु द्वन्द्वरोगादिबाधनं निर्निमित्तं न हि शक्यते कल्पयितुम् , नित्यकर्मानुष्ठानायासदुःखमेव पूर्वोपात्तदुरितफलं न शिरसा पाषाणवहनादिदुःखमिति । अप्रकृतं च इदम् उच्यते — नित्यकर्मानुष्ठानायासदुःखं पूर्वकृतदुरितकर्मफलम् इति । कथम् ? अप्रसूतफलस्य हि पूर्वकृतदुरितस्य क्षयः न उपपद्यत इति प्रकृतम् । तत्र प्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानायासदुःखम् आह भवान् , न अप्रसूतफलस्येति । अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेव इति मन्यते भवान् , ततः नित्यकर्मानुष्ठानायासदुःखमेव फलम् इति विशेषणम् अयुक्तम् । नित्यकर्मविध्यानर्थक्यप्रसङ्गश्च, उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः । किञ्च, श्रुतस्य नित्यस्य कर्मणः दुःखं चेत् फलम् , नित्यकर्मानुष्ठानायासादेव तत् दृश्यते व्यायामादिवत् ; तत् अन्यस्य इति कल्पनानुपपत्तिः । जीवनादिनिमित्ते च विधानात् , नित्यानां कर्मणां प्रायश्चित्तवत् पूर्वकृतदुरितफलत्वानुपपत्तिः । यस्मिन् पापकर्मणि निमित्ते यत् विहितं प्रायश्चित्तम् न तु तस्य पापस्य तत् फलम् । अथ तस्यैव पापस्य निमित्तस्य प्रायश्चित्तदुःखं फलम् , जीवनादिनिमित्तेऽपि नित्यकर्मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव फलं प्रसज्येत, नित्यप्रायश्चित्तयोः नैमित्तिकत्वाविशेषात् । किञ्च अन्यत् — नित्यस्य काम्यस्य च अग्निहोत्रादेः अनुष्ठानायासदुःखस्य तुल्यत्वात् नित्यानुष्ठानायासदुःखमेव पूर्वकृतदुरितस्य फलम् , न तु काम्यानुष्ठानायासदुःखम् इति विशेषो नास्तीति तदपि पूर्वकृतदुरितफलं प्रसज्येत । तथा च सति नित्यानां फलाश्रवणात् तद्विधानान्यथानुपपत्तेश्च नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलम् इति अर्थापत्तिकल्पना च अनुपपन्ना, एवं विधानान्यथानुपपत्तेः अनुष्ठानायासदुःखव्यतिरिक्तफलत्वानुमानाच्च नित्यानाम् । विरोधाच्च ; विरुद्धं च इदम् उच्यते — नित्यकर्मणा अनुष्टीयमानेन अन्यस्य कर्मणः फलं भुज्यते इति अभ्युपगम्यमाने स एव उपभोगः नित्यस्य कर्मणः फलम् इति, नित्यस्य कर्मणः फलाभाव इति च विरुद्धम् उच्यते । किञ्च, काम्याग्निहोत्रादौ अनुष्ठीयमाने नित्यमपि अग्निहोत्रादि तन्त्रेणैव अनुष्ठितं भवतीति तदायासदुःखेनैव काम्याग्निहोत्रादिफलम् उपक्षीणं स्यात् , तत्तन्त्रत्वात् । अथ काम्याग्निहोत्रादिफलम् अन्यदेव स्वर्गादि, तदनुष्ठानायासदुःखमपि भिन्नं प्रसज्येत । न च तदस्ति, दृष्टविरोधात् ; न हि काम्यानुष्ठानायासदुःखात् केवलनित्यानुष्ठानायासदुःखं भिन्नं दृश्यते । किञ्च अन्यत् — अविहितमप्रतिषिद्धं च कर्म तत्कालफलम् , न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेत् । तदा स्वर्गादिष्वपि अदृष्टफलाशासनेन उद्यमो न स्यात् — अग्निहोत्रादीनामेव कर्मस्वरूपाविशेषे अनुष्ठानायासदुःखमात्रेण उपक्षयः नित्यानाम् ; स्वर्गादिमहाफलत्वं काम्यानाम् , अङ्गेतिकर्तव्यताद्याधिक्ये तु असति, फलकामित्वमात्रेणेति । तस्माच्च न नित्यानां कर्मणाम् अदृष्टफलाभावः कदाचिदपि उपपद्यते । अतश्च अविद्यापूर्वकस्य कर्मणः विद्यैव शुभस्य अशुभस्य वा क्षयकारणम् अशेषतः, न नित्यकर्मानुष्ठानम् । अविद्याकामबीजं हि सर्वमेव कर्म । तथा च उपपादितमविद्वद्विषयं कर्म, विद्वद्विषया च सर्वकर्मसंन्यासपूर्विका ज्ञाननिष्ठा — ‘उभौ तौ न विजानीतः’ (भ. गी. २ । १९) ‘वेदाविनाशिनं नित्यम्’ (भ. गी. २ । २१) ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) ‘अज्ञानां कर्मसङ्गिनाम्’ (भ. गी. ३ । २६) ‘तत्त्ववित्तु महाबाहो गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते’ (भ. गी. ३ । २८) ‘सर्वकर्माणि मनसा संन्यस्यास्ते’ (भ. गी. ५ । १३) ‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्’ (भ. गी. ५ । ८), अर्थात् अज्ञः करोमि इति ; आरुरुक्षोः कर्म कारणम् , आरूढस्य योगस्थस्य शम एव कारणम् ; उदाराः त्रयोऽपि अज्ञाः, ‘ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) ‘अज्ञाः कर्मिणः गतागतं कामकामाः लभन्ते’ ; अनन्याश्चिन्तयन्तो मां नित्ययुक्ताः यथोक्तम् आत्मानम् आकाशकल्पम् उपासते ; ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’, अर्थात् न कर्मिणः अज्ञाः उपयान्ति । भगवत्कर्मकारिणः ये युक्ततमा अपि कर्मिणः अज्ञाः, ते उत्तरोत्तरहीनफलत्यागावसानसाधनाः ; अनिर्देश्याक्षरोपासकास्तु ‘अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३) इति आध्यायपरिसमाप्ति उक्तसाधनाः क्षेत्राध्यायाद्यध्यायत्रयोक्तज्ञानसाधनाश्च । अधिष्ठानादिपञ्चकहेतुकसर्वकर्मसंन्यासिनां आत्मैकत्वाकर्तृत्वज्ञानवतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भगवत्तत्त्वविदाम् अनिष्टादिकर्मफलत्रयं परमहंसपरिव्राजकानामेव लब्धभगवत्स्वरूपात्मैकत्वशरणानां न भवति ; भवत्येव अन्येषामज्ञानां कर्मिणामसंन्यासिनाम् इत्येषः गीताशास्त्रोक्तकर्तव्यार्थस्य विभागः ॥
ये त्विति ; न त्विति ; जीवनादीति ; नेत्यादिना ; यदुक्तमिति ; न हीति ; अन्यथेति ; तस्येति ; द्वन्द्वेति ; नित्येति ; अप्रकृतं चेति ; कथमिति ; अप्रसूतेति ; तत्रेति ; अथेति ; ततः इति ; नित्येति ; किञ्चेति ; श्रुतस्येति ; जीवनादिति ; प्रायश्चित्तवदिति ; यस्मिन्निति ; अथेति ; जीवनादीति ; नित्येति ; किञ्चेति ; तथाचेति ; एवमिति ; विरोधाच्चेति ; विरुद्धं चेति ; नित्येति ; स एवेति ; किञ्चेति ; तत्तन्त्रत्वादिति ; अथेति ; तदनुष्ठानेति ; न चेति ; न हीति ; किञ्चान्यदिति ; अविहितमिति ; न त्विति ; तदेति ; अग्निहोत्रादीनामिति ; फलकामित्वमात्रेणेति ; तस्मान्नेति ; अतश्चेति ; अविद्येति ; तथेति ; अविद्वदिति ; उभाविति ; वेदेति ; ज्ञानेति ; अज्ञानामिति ; तत्त्ववित्त्विति ; सर्वेति ; नैवेति ; अज्ञ इति ; आरुरुक्षोरिति ; उदाराः इति ; अज्ञा इति ; अनन्या इति ; यथोक्तमिति ; ददामीति ; अर्थादिति ; भगवदिति ; उत्तरोत्तरेति ; अनिर्देश्येति ; क्षेत्रेति ; अधिष्ठानादीति ;

यत्तु नित्यानुष्ठानायासदुःखभोगस्य तत्फलभोगत्वम् इति तत् इदानीम् अनुवदति-

ये त्विति ।

नित्यानि अनुष्ठीयमानानि आयासपर्यन्तानि इति शेषः ।

तथापि नित्यानां  काम्यानामिव स्वरूपातिरिक्तं फलम् आशङ्क्य विध्युद्देशे तदश्रवणात् , मैवम् इत्याह -

न त्विति ।

विध्युद्देशे फलाश्रुतौ तत्कामायाः निमित्तस्य अभावात् न नित्यानि विधीयेरन् इति आशङ्क्य आह -

जीवनादीति ।

न नित्यानां विध्यसिद्धिः इति शेषः ।

अनुभाषितं दूषयति-

नेत्यादिना ।

तदेव विवृण्वन् निषेध्यम् अनूद्य नञर्थम् आह-

यदुक्तमिति ।

अप्रवृत्तानाम् इत्यादिहेतुं प्रपञ्चयति -

न हीति ।

कर्मान्तरारब्धेऽपि देहे दुरितफलं नित्यानुष्ठानायासदुःखं भुज्यतां का अनुपपत्तिः इति आशङ्क्य आह -

अन्यथेति ।

यत् उक्तं दुःखफलविशेषानुपपत्तिश्च स्यात् इति, तत् उपपादयति -

तस्येति ।

सम्भावितानि तावत् अनन्तानि सञ्चितानि दुरितानि । तानि च नानादुःखफलानि । यदि तानि नित्यानुष्ठानायासरूपं दुःखं, तन्मात्रफलानि कल्प्येरन् , तदा तेषु एवं कल्प्यमानेषु सत्सु, नित्यस्य अनुष्ठितस्य आयासम् आसादयतः यः दुरतिकृतः दुःखविशेषः न तत्फलं दुरितफलानां दुःखानां बहुत्वात् , अतः नित्यं कर्म यथाविशेषितं दुरितकृतदुःखविशेषफलकम् इति अयुक्तम् इत्यर्थः ।

किञ्च नित्यानुष्ठानायासदुःखमात्रफलानि चेत् दुरितानि कल्प्यन्ते, तदा द्वन्द्वशब्दितरागादिबाधस्य रोगादिबाधायाश्च दुरितनिमित्तत्वानुपपत्तेः, सुकृतकृतत्वस्य च असम्भवात् अनुपपत्तिरेव उदीरितबाधायाः स्यात् इत्याह -

द्वन्द्वेति ।

इतश्च नित्यानुष्ठानायासदुःखमेव दुरितफलम् इति अयुक्तम् इत्याह -

नित्येति ।

दुःखमिति न शक्यते कल्पयितुम् इति पूर्वेण सम्बन्धः । यदि तदेव तत्फलं, न तर्हि शिरसा पाषाणवहनादिदुःखं दुरितकृतं, न च तत्कारणं सुकृतं, दुःखस्य अतत्कार्यत्वत् , अतः तत् आकस्मिकं स्यात् इत्यर्थः ।

नित्यानुष्ठानायासदुःखम् उपात्तदुरितफलम् इति एतत् अप्रकृतत्वाच्च अयुक्तं वक्तुम् इति आह -

अप्रकृतं चेति ।

तदेव प्रपञ्चयितुं पृच्छति -

कथमिति ।

तत्र आदौ प्रकृतम् आह -

अप्रसूतेति ।

तथापि कथम् अस्माकम् अप्रकृतवादित्वम् ? तत्र अाह -

तत्रेति ।

प्रसूतफलत्वम् अप्रसूतफलत्वम् इति प्राचीनदुरितगतविशेषानुपगमात् अविशेषेण सर्वस्यैव तस्य प्रसूतफलत्वात् नित्यानुष्ठानायासदुःखफलत्वसम्भवात् न अप्राकृतवादिता इति शङ्कते -

अथेति ।

पूर्वोपात्तदुरितस्य अविशेषेण आरब्धफलत्वे विशेषणानर्थक्यम् इति परिहरति -

ततः इति ।

 दुरितमात्रस्य आरब्धफलत्वेन अनारब्धफलस्य तस्य उक्तफलविशेषवत्त्वानुपपत्तेः इत्यर्थः ।

पूर्वोपात्तदुरितम् आरब्धफलं चेत् , भोगेनैव तत्क्षयसम्भवात् तन्निवृत्त्यर्थं नित्यं कर्म न विधातव्यम् इति दोषान्तरम् आह -

नित्येति ।

इतश्च नित्यानुष्ठानायासदुःखं न उपात्तदुरितफलम् इत्याह -

किञ्चेति ।

तदेव स्फोरयति-

श्रुतस्येति ।

यथा व्यायामगमनादिकृतं दुःखं न अन्यस्य दुरितस्य इष्यते, तत्फलत्वसम्भवात् , तथा नित्यस्यापि श्रुत्युक्तस्य अनुष्ठितस्य आयासपर्यन्तस्य फलान्तरानुपगमात् , अनुष्ठानायासदुःखमेव चेत् फलं, तर्हि तस्मादेव तद्दर्शनात् तस्य न दुरितफलत्वं कल्प्यं, नित्यफलत्वसम्भवात् इत्यर्थः ।

दुःखफलत्वे नित्यानाम् अननुष्ठानमेव श्रेयः स्यात् इति आशङ्क्य आह -

जीवनादिति ।

नित्यानां दुरितफलत्वानुपपत्तौ हेत्वन्तरम्  आह -

प्रायश्चित्तवदिति ।

दृष्टान्तं प्रपञ्चयति -

यस्मिन्निति ।

तथा जीवनादिनिमित्ते विहितानां नित्यानां दुरितफलत्वासिद्धिः इति शेषः । सत्यं प्रायश्चित्तं न निमित्तस्य पापस्य फलम् ।

किन्तु तदनुष्ठानायासदुःखं तस्य पापस्य फलम् इति शङ्कते -

अथेति ।

प्रायश्चित्तानुष्ठानायासदुःखस्य निमित्तभूतपापफलत्वे, जीवनादिनिमित्तनित्याद्यनुष्ठानायासदुःखमपि जीवनादेरेव फलं स्यात् , न उपात्तदुरितस्य, इति परिहरति -

जीवनादीति ।

प्रायश्चित्तदुःखस्य तन्निमित्तपापफलत्ववत् जीवनादिनिमित्तकर्मकृतमपि दुःखं जीवनादिफलम् इति अत्र हेतुम् आह -

नित्येति ।

इतश्च नित्यानुष्ठानायासदुःखमेव उपात्तदुरितफलम् इति अशक्यं वक्तुम् इति आह -

किञ्चेति ।

काम्यानुष्ठानायासदुःखमपि दुरितफलम् इति उपगमात् प्रसङ्गस्य इष्टत्वम् आशङ्क्य आह -

तथाचेति ।

विहितानि तावत् नित्यानि । न च तेषु फलं श्रुतम् । न च विना फलं विधिः । तेन दुरितनिबर्हणार्थानि नित्यानि, इति अर्थापत्त्या कल्प्यते । न च सा युक्ता । काम्यानुष्ठानादपि दुरितनिवृत्तिसम्भवात् इत्यर्थः ।

किञ्च नित्यानि अनुष्ठानायासातिरिक्तफलानि, विहितत्वात् , काम्यवत् , इति अनुमानात् न तेषां दुरितनिवृत्त्यर्थता इति आह -

एवमिति ।

काम्यादिकर्म दृष्टान्तयितुम् एवम् इत्युक्तम् । स्वोक्तिव्याघाताच्च नित्यानुष्ठानात् दुरितफलभोगोक्तिः अयुक्ता इत्याह -

विरोधाच्चेति ।

तदेव प्रपञ्चयति -

विरुद्धं चेति ।

इदंशब्दार्थमेव विशदयति -

नित्येति ।

अन्यस्य कर्मणः दुरितस्य इति यावत् ।

स एवेति ।

यदनन्तरं यत् भवति, तत् तस्य कार्यम् इति नियमात् इत्यर्थः ।

इतश्च नित्यानुष्ठाने दुरितफलभोगः  न सिध्यति इति आह -

किञ्चेति ।

काम्यानुष्ठानस्य  नित्यानुष्ठानस्य च यौगपद्यात् नित्यानुष्ठानायासदुःखेन दुरितफलभोगवत् काम्यफलस्यापि भुक्तत्वसम्भवात् इति हेतुम् आह -

तत्तन्त्रत्वादिति ।

नित्यकाम्यानुष्ठानयोः यौगपद्येऽपि, नित्यानुष्ठानायासदुःखात् अन्यदेव काम्यानुष्ठानफलं, श्रुतत्वात् इति शङ्कते -

अथेति ।

काम्यानुष्ठानफलं नित्यानुष्ठानायासदुःखात् भिन्नं  चेत् , तर्हि काम्यानुष्ठानायासदुःखं नित्यानुष्ठानायासदुःखं च मिथः भिन्नं स्यात् इत्याह -

तदनुष्ठानेति ।

प्रसङ्गस्य इष्टत्वम् आशङ्क्य निराचष्टे -

न चेति ।

दृष्टविरोधमेव स्पष्टयति -

न हीति ।

आत्मज्ञानवत् अग्निहोत्रादीनां मोक्षे साक्षात्  अन्वयः न इत्यत्र अऩ्यदपि कारणम् अस्ति इत्याह -

किञ्चान्यदिति ।

तदेव कारणं विवृणोति -

अविहितमिति ।

यत् कर्म मर्दनभोजनादि, तत् न शास्त्रेण विहितं निषिद्धं वा, तत् अनन्तरफलं, तथा अनुभावत् इत्यर्थः ।

शास्त्रीयं कर्म तु न अनन्तरफलं, आनन्तर्यस्य अचोदितत्वात् । अतः ज्ञाने दृष्टफले न अदृष्टफलं कर्म सहकारि भवति नापि स्वयमेव दृष्टफले मोक्षे कर्म प्रवृत्तिक्षमम् , इति विवक्षित्वा आह -

न त्विति ।

शास्त्रीयस्य अग्निहोत्रादेरपि फलानन्तर्ये स्वर्गादीनाम् अनन्तरम् अनुपलब्धिः विरुद्ध्येत । ततः तेषु अदृष्टेऽपि तथाविधफलापेक्षया प्रवृत्तिः अग्निहोत्रादिषु न स्यात् इत्याह -

तदेति ।

किञ्च नित्यानाम् अग्निहोत्रादीनां न अदृष्टं फलं, तेषामेव काम्यानां तादृक् फलम् , न च हेतुं विना अयं विभागः भावी, इत्याह -

अग्निहोत्रादीनामिति ।

फलकामित्वमात्रेणेति ।

न स्यात् इति पूर्वेण सम्बन्धः । यानि नित्यानि अग्निहोत्रादीनि, यानि च काम्यानि, तेषाम् उभयेषामेव कर्मस्वरूपविशेषाभावेऽपि नित्यानां तेषाम् अनुष्ठानायासदुःखमात्रेण क्षयः, न फलान्तरम् अस्ति । तेषामेव काम्यानाम् अङ्गाद्याधिक्याभावेऽपि फलकामित्वम् अधिकारिणि अस्ति इति एतावन्मात्रेण स्वर्गादिमहाफलत्वम् इति अयं विभागः न प्रमाणवान् इत्यर्थः ।

उक्तविभागायोगे फलितम् आह-

तस्मान्नेति ।

काम्यवत् नित्यानामपि पितृलोकाद्यदृष्टफलवत्त्वे दुरितनिवृत्त्यर्थत्वायोगात् तादर्थ्येन आत्मविद्यैव अभ्युपगन्तव्या इत्याह -

अतश्चेति ।

शुभाशुभात्मकं कर्म सर्वम् अविद्यापूर्वकं चेत् अशेषतः तर्हि तस्य क्षयकारणं विद्या इति उपपद्यते । न तु सर्वं कर्म अविद्यापूर्वकम् इति सिद्धम् , इति आशङ्क्य आह –

अविद्येति ।

तत्र हिशब्दद्योतितां युक्तिं दर्शयति -

तथेति ।

इतश्च अविद्वद्विषयं कर्म इति आह -

अविद्वदिति ।

अधिकारिभेदेन निष्ठाद्वयम् इत्यत्र वाक्योपक्रमम् अनुकूलयन् , आत्मनि कर्तृत्वं कर्मत्वं च आरोपयन् , न जानाति आत्मानम् इति वदता कर्म अज्ञानमूलम् इति दर्शितम् इति आह -

उभाविति ।

आत्मानं याथार्थ्येन जानन् कर्तृत्वादिरहितः भवति इति ब्रुवता, कर्मसंन्यासे ज्ञानवतः अधिकारित्वं सूचितम् इति आह -

वेदेति ।

निष्ठाद्वयम् अधिकारिभेदेन बोद्धव्यम् इति अत्रैव वाक्यन्तरम् आह -

ज्ञानेति ।

‘न बुद्धिभेदं जनयेत् ‘ इत्यत्र च अविद्यामूलत्वं कर्मणः सूचयता कर्मनिष्ठा अविद्बद्विषया अनुमोदिता इत्याह -

अज्ञानामिति ।

यत् उक्तं विद्वद्विषया संन्यासपूर्वेिका ज्ञाननिष्ठा इति, तत्र ‘तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । ‘ इत्यादि वाक्यम् उदाहरति -

तत्त्ववित्त्विति ।

तत्रैव वाक्यान्तरं पठति -

सर्वेति ।

विदुषः ज्ञाननष्ठा इत्यत्रैव पाञ्चमिकं वाक्यान्तरम् आह-

नैवेति ।

तत्रैव अर्थसिद्धम् अर्थं कथयति -

अज्ञ इति ।

मन्यते इति सम्बन्धः ।

अज्ञस्य चित्तशुद्ध्यर्थङ्कर्म, शुद्धचित्तस्य कर्मसंन्यासः ज्ञानप्राप्तौ हेतुः इत्यत्र वाक्यान्तरम् आह -

आरुरुक्षोरिति ।

यथोक्ते विभागे साप्तमिकं वाक्यम् अनुगुणम् इति आह -

उदाराः इति ।

एवं त्रयीधर्म इत्यादि नावमिकं वाक्यम् अविद्वद्विषयं कर्म इत्यत्र प्रमाणयति -

अज्ञा इति ।

विदुषः संन्यासपूर्विका ज्ञाननिष्ठा इति अत्रैव नावमिकं वाक्यान्तरम् आह -

अनन्या इति ।

माम् इति एतत् व्याचष्टे-

यथोक्तमिति ।

तेषां सततयुक्तानाम् इत्यादि दाशमिकं वाक्यं तत्रैव प्रमाणयति -

ददामीति ।

विद्यावतामेव भगवत्प्राप्तिनिर्देशात् इतरेषां तदप्राप्तिः सूचिता इति अर्थसिद्धम् अर्थम् आह -

अर्थादिति ।

ननु भगवत्कर्मकारिणां युक्ततमत्वात् , कर्मिणोऽपि भगवन्तं यान्ति इति आशङ्क्य आह -

भगवदिति ।

ये मत्कर्मकृत् इत्यादिन्यायेन भगवत्कर्मकारिणः, ते यद्यपि युक्ततमाः, तथापि कर्मिणः अज्ञाः सन्तः न भगवन्तं सहसा गन्तुम् अर्हन्ति इत्यर्थः ।

तेषाम् अज्ञत्वे गमकं दर्शयति -

उत्तरोत्तरेति ।

चित्तसमाधानम् आरभ्य फलत्यागपर्यन्तं पाठक्रमेण उत्तरोत्तरं हीनसाधनोपादानात् अभ्याससामर्थस्य भगवत्कर्मकारित्वाभिधानात् भगवत्कर्मकारिणाम् अज्ञत्वं विज्ञातम् इत्यर्थः ।

‘ये त्वक्षरमनिर्देश्यं’ (भ. गी. १२-३) इत्यादिवाक्यावष्टम्भेन विद्वद्विषयत्वं संन्यासपूर्वकज्ञाननिष्ठायाः निर्धारयति-

अनिर्देश्येति ।

उक्तसाधनाः तेन ते संन्यासपूर्वकज्ञाननिष्ठायाम् अधिक्रियेरन् इति शेषः ।

किञ्च त्रयोदशे यानि अमानित्वादीनि चतुर्दशे च प्रकाशं च प्रवृत्तिं च इत्यादीनि यानि, पञ्चदशे च यानि असङ्गत्वादीनि उक्तानि, तैः सर्वैः साधनैः सहिताः भवन्ति अनिर्देश्याक्षरोपासकाः । ततोऽपि ते ज्ञाननिष्ठायामेव अधिक्रियेरन् इत्याह -

क्षेत्रेति ।

निष्ठाद्वयम् अधिकारिभेदेन प्रतिष्ठाप्य, ज्ञाननिष्ठानाम् अनिष्टम् इष्टं मिश्रम् इति त्रिविधं कर्मफलं न भवति, किन्तु मुक्तिरेव । कर्मनिष्ठानां तु त्रिविधं कर्मफलं न मुक्तिः, इति  शास्त्रार्थविभागम् अभिप्रेतम् उपसंहरति -

अधिष्ठानादीति ।