यत्तु नित्यानुष्ठानायासदुःखभोगस्य तत्फलभोगत्वम् इति तत् इदानीम् अनुवदति-
ये त्विति ।
नित्यानि अनुष्ठीयमानानि आयासपर्यन्तानि इति शेषः ।
तथापि नित्यानां काम्यानामिव स्वरूपातिरिक्तं फलम् आशङ्क्य विध्युद्देशे तदश्रवणात् , मैवम् इत्याह -
न त्विति ।
विध्युद्देशे फलाश्रुतौ तत्कामायाः निमित्तस्य अभावात् न नित्यानि विधीयेरन् इति आशङ्क्य आह -
जीवनादीति ।
न नित्यानां विध्यसिद्धिः इति शेषः ।
अनुभाषितं दूषयति-
नेत्यादिना ।
तदेव विवृण्वन् निषेध्यम् अनूद्य नञर्थम् आह-
यदुक्तमिति ।
अप्रवृत्तानाम् इत्यादिहेतुं प्रपञ्चयति -
न हीति ।
कर्मान्तरारब्धेऽपि देहे दुरितफलं नित्यानुष्ठानायासदुःखं भुज्यतां का अनुपपत्तिः इति आशङ्क्य आह -
अन्यथेति ।
यत् उक्तं दुःखफलविशेषानुपपत्तिश्च स्यात् इति, तत् उपपादयति -
तस्येति ।
सम्भावितानि तावत् अनन्तानि सञ्चितानि दुरितानि । तानि च नानादुःखफलानि । यदि तानि नित्यानुष्ठानायासरूपं दुःखं, तन्मात्रफलानि कल्प्येरन् , तदा तेषु एवं कल्प्यमानेषु सत्सु, नित्यस्य अनुष्ठितस्य आयासम् आसादयतः यः दुरतिकृतः दुःखविशेषः न तत्फलं दुरितफलानां दुःखानां बहुत्वात् , अतः नित्यं कर्म यथाविशेषितं दुरितकृतदुःखविशेषफलकम् इति अयुक्तम् इत्यर्थः ।
किञ्च नित्यानुष्ठानायासदुःखमात्रफलानि चेत् दुरितानि कल्प्यन्ते, तदा द्वन्द्वशब्दितरागादिबाधस्य रोगादिबाधायाश्च दुरितनिमित्तत्वानुपपत्तेः, सुकृतकृतत्वस्य च असम्भवात् अनुपपत्तिरेव उदीरितबाधायाः स्यात् इत्याह -
द्वन्द्वेति ।
इतश्च नित्यानुष्ठानायासदुःखमेव दुरितफलम् इति अयुक्तम् इत्याह -
नित्येति ।
दुःखमिति न शक्यते कल्पयितुम् इति पूर्वेण सम्बन्धः । यदि तदेव तत्फलं, न तर्हि शिरसा पाषाणवहनादिदुःखं दुरितकृतं, न च तत्कारणं सुकृतं, दुःखस्य अतत्कार्यत्वत् , अतः तत् आकस्मिकं स्यात् इत्यर्थः ।
नित्यानुष्ठानायासदुःखम् उपात्तदुरितफलम् इति एतत् अप्रकृतत्वाच्च अयुक्तं वक्तुम् इति आह -
अप्रकृतं चेति ।
तदेव प्रपञ्चयितुं पृच्छति -
कथमिति ।
तत्र आदौ प्रकृतम् आह -
अप्रसूतेति ।
तथापि कथम् अस्माकम् अप्रकृतवादित्वम् ? तत्र अाह -
तत्रेति ।
प्रसूतफलत्वम् अप्रसूतफलत्वम् इति प्राचीनदुरितगतविशेषानुपगमात् अविशेषेण सर्वस्यैव तस्य प्रसूतफलत्वात् नित्यानुष्ठानायासदुःखफलत्वसम्भवात् न अप्राकृतवादिता इति शङ्कते -
अथेति ।
पूर्वोपात्तदुरितस्य अविशेषेण आरब्धफलत्वे विशेषणानर्थक्यम् इति परिहरति -
ततः इति ।
दुरितमात्रस्य आरब्धफलत्वेन अनारब्धफलस्य तस्य उक्तफलविशेषवत्त्वानुपपत्तेः इत्यर्थः ।
पूर्वोपात्तदुरितम् आरब्धफलं चेत् , भोगेनैव तत्क्षयसम्भवात् तन्निवृत्त्यर्थं नित्यं कर्म न विधातव्यम् इति दोषान्तरम् आह -
नित्येति ।
इतश्च नित्यानुष्ठानायासदुःखं न उपात्तदुरितफलम् इत्याह -
किञ्चेति ।
तदेव स्फोरयति-
श्रुतस्येति ।
यथा व्यायामगमनादिकृतं दुःखं न अन्यस्य दुरितस्य इष्यते, तत्फलत्वसम्भवात् , तथा नित्यस्यापि श्रुत्युक्तस्य अनुष्ठितस्य आयासपर्यन्तस्य फलान्तरानुपगमात् , अनुष्ठानायासदुःखमेव चेत् फलं, तर्हि तस्मादेव तद्दर्शनात् तस्य न दुरितफलत्वं कल्प्यं, नित्यफलत्वसम्भवात् इत्यर्थः ।
दुःखफलत्वे नित्यानाम् अननुष्ठानमेव श्रेयः स्यात् इति आशङ्क्य आह -
जीवनादिति ।
नित्यानां दुरितफलत्वानुपपत्तौ हेत्वन्तरम् आह -
प्रायश्चित्तवदिति ।
दृष्टान्तं प्रपञ्चयति -
यस्मिन्निति ।
तथा जीवनादिनिमित्ते विहितानां नित्यानां दुरितफलत्वासिद्धिः इति शेषः । सत्यं प्रायश्चित्तं न निमित्तस्य पापस्य फलम् ।
किन्तु तदनुष्ठानायासदुःखं तस्य पापस्य फलम् इति शङ्कते -
अथेति ।
प्रायश्चित्तानुष्ठानायासदुःखस्य निमित्तभूतपापफलत्वे, जीवनादिनिमित्तनित्याद्यनुष्ठानायासदुःखमपि जीवनादेरेव फलं स्यात् , न उपात्तदुरितस्य, इति परिहरति -
जीवनादीति ।
प्रायश्चित्तदुःखस्य तन्निमित्तपापफलत्ववत् जीवनादिनिमित्तकर्मकृतमपि दुःखं जीवनादिफलम् इति अत्र हेतुम् आह -
नित्येति ।
इतश्च नित्यानुष्ठानायासदुःखमेव उपात्तदुरितफलम् इति अशक्यं वक्तुम् इति आह -
किञ्चेति ।
काम्यानुष्ठानायासदुःखमपि दुरितफलम् इति उपगमात् प्रसङ्गस्य इष्टत्वम् आशङ्क्य आह -
तथाचेति ।
विहितानि तावत् नित्यानि । न च तेषु फलं श्रुतम् । न च विना फलं विधिः । तेन दुरितनिबर्हणार्थानि नित्यानि, इति अर्थापत्त्या कल्प्यते । न च सा युक्ता । काम्यानुष्ठानादपि दुरितनिवृत्तिसम्भवात् इत्यर्थः ।
किञ्च नित्यानि अनुष्ठानायासातिरिक्तफलानि, विहितत्वात् , काम्यवत् , इति अनुमानात् न तेषां दुरितनिवृत्त्यर्थता इति आह -
एवमिति ।
काम्यादिकर्म दृष्टान्तयितुम् एवम् इत्युक्तम् । स्वोक्तिव्याघाताच्च नित्यानुष्ठानात् दुरितफलभोगोक्तिः अयुक्ता इत्याह -
विरोधाच्चेति ।
तदेव प्रपञ्चयति -
विरुद्धं चेति ।
इदंशब्दार्थमेव विशदयति -
नित्येति ।
अन्यस्य कर्मणः दुरितस्य इति यावत् ।
स एवेति ।
यदनन्तरं यत् भवति, तत् तस्य कार्यम् इति नियमात् इत्यर्थः ।
इतश्च नित्यानुष्ठाने दुरितफलभोगः न सिध्यति इति आह -
किञ्चेति ।
काम्यानुष्ठानस्य नित्यानुष्ठानस्य च यौगपद्यात् नित्यानुष्ठानायासदुःखेन दुरितफलभोगवत् काम्यफलस्यापि भुक्तत्वसम्भवात् इति हेतुम् आह -
तत्तन्त्रत्वादिति ।
नित्यकाम्यानुष्ठानयोः यौगपद्येऽपि, नित्यानुष्ठानायासदुःखात् अन्यदेव काम्यानुष्ठानफलं, श्रुतत्वात् इति शङ्कते -
अथेति ।
काम्यानुष्ठानफलं नित्यानुष्ठानायासदुःखात् भिन्नं चेत् , तर्हि काम्यानुष्ठानायासदुःखं नित्यानुष्ठानायासदुःखं च मिथः भिन्नं स्यात् इत्याह -
तदनुष्ठानेति ।
प्रसङ्गस्य इष्टत्वम् आशङ्क्य निराचष्टे -
न चेति ।
दृष्टविरोधमेव स्पष्टयति -
न हीति ।
आत्मज्ञानवत् अग्निहोत्रादीनां मोक्षे साक्षात् अन्वयः न इत्यत्र अऩ्यदपि कारणम् अस्ति इत्याह -
किञ्चान्यदिति ।
तदेव कारणं विवृणोति -
अविहितमिति ।
यत् कर्म मर्दनभोजनादि, तत् न शास्त्रेण विहितं निषिद्धं वा, तत् अनन्तरफलं, तथा अनुभावत् इत्यर्थः ।
शास्त्रीयं कर्म तु न अनन्तरफलं, आनन्तर्यस्य अचोदितत्वात् । अतः ज्ञाने दृष्टफले न अदृष्टफलं कर्म सहकारि भवति नापि स्वयमेव दृष्टफले मोक्षे कर्म प्रवृत्तिक्षमम् , इति विवक्षित्वा आह -
न त्विति ।
शास्त्रीयस्य अग्निहोत्रादेरपि फलानन्तर्ये स्वर्गादीनाम् अनन्तरम् अनुपलब्धिः विरुद्ध्येत । ततः तेषु अदृष्टेऽपि तथाविधफलापेक्षया प्रवृत्तिः अग्निहोत्रादिषु न स्यात् इत्याह -
तदेति ।
किञ्च नित्यानाम् अग्निहोत्रादीनां न अदृष्टं फलं, तेषामेव काम्यानां तादृक् फलम् , न च हेतुं विना अयं विभागः भावी, इत्याह -
अग्निहोत्रादीनामिति ।
फलकामित्वमात्रेणेति ।
न स्यात् इति पूर्वेण सम्बन्धः । यानि नित्यानि अग्निहोत्रादीनि, यानि च काम्यानि, तेषाम् उभयेषामेव कर्मस्वरूपविशेषाभावेऽपि नित्यानां तेषाम् अनुष्ठानायासदुःखमात्रेण क्षयः, न फलान्तरम् अस्ति । तेषामेव काम्यानाम् अङ्गाद्याधिक्याभावेऽपि फलकामित्वम् अधिकारिणि अस्ति इति एतावन्मात्रेण स्वर्गादिमहाफलत्वम् इति अयं विभागः न प्रमाणवान् इत्यर्थः ।
उक्तविभागायोगे फलितम् आह-
तस्मान्नेति ।
काम्यवत् नित्यानामपि पितृलोकाद्यदृष्टफलवत्त्वे दुरितनिवृत्त्यर्थत्वायोगात् तादर्थ्येन आत्मविद्यैव अभ्युपगन्तव्या इत्याह -
अतश्चेति ।
शुभाशुभात्मकं कर्म सर्वम् अविद्यापूर्वकं चेत् अशेषतः तर्हि तस्य क्षयकारणं विद्या इति उपपद्यते । न तु सर्वं कर्म अविद्यापूर्वकम् इति सिद्धम् , इति आशङ्क्य आह –
अविद्येति ।
तत्र हिशब्दद्योतितां युक्तिं दर्शयति -
तथेति ।
इतश्च अविद्वद्विषयं कर्म इति आह -
अविद्वदिति ।
अधिकारिभेदेन निष्ठाद्वयम् इत्यत्र वाक्योपक्रमम् अनुकूलयन् , आत्मनि कर्तृत्वं कर्मत्वं च आरोपयन् , न जानाति आत्मानम् इति वदता कर्म अज्ञानमूलम् इति दर्शितम् इति आह -
उभाविति ।
आत्मानं याथार्थ्येन जानन् कर्तृत्वादिरहितः भवति इति ब्रुवता, कर्मसंन्यासे ज्ञानवतः अधिकारित्वं सूचितम् इति आह -
वेदेति ।
निष्ठाद्वयम् अधिकारिभेदेन बोद्धव्यम् इति अत्रैव वाक्यन्तरम् आह -
ज्ञानेति ।
‘न बुद्धिभेदं जनयेत् ‘ इत्यत्र च अविद्यामूलत्वं कर्मणः सूचयता कर्मनिष्ठा अविद्बद्विषया अनुमोदिता इत्याह -
अज्ञानामिति ।
यत् उक्तं विद्वद्विषया संन्यासपूर्वेिका ज्ञाननिष्ठा इति, तत्र ‘तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । ‘ इत्यादि वाक्यम् उदाहरति -
तत्त्ववित्त्विति ।
तत्रैव वाक्यान्तरं पठति -
सर्वेति ।
विदुषः ज्ञाननष्ठा इत्यत्रैव पाञ्चमिकं वाक्यान्तरम् आह-
नैवेति ।
तत्रैव अर्थसिद्धम् अर्थं कथयति -
अज्ञ इति ।
मन्यते इति सम्बन्धः ।
अज्ञस्य चित्तशुद्ध्यर्थङ्कर्म, शुद्धचित्तस्य कर्मसंन्यासः ज्ञानप्राप्तौ हेतुः इत्यत्र वाक्यान्तरम् आह -
आरुरुक्षोरिति ।
यथोक्ते विभागे साप्तमिकं वाक्यम् अनुगुणम् इति आह -
उदाराः इति ।
एवं त्रयीधर्म इत्यादि नावमिकं वाक्यम् अविद्वद्विषयं कर्म इत्यत्र प्रमाणयति -
अज्ञा इति ।
विदुषः संन्यासपूर्विका ज्ञाननिष्ठा इति अत्रैव नावमिकं वाक्यान्तरम् आह -
अनन्या इति ।
माम् इति एतत् व्याचष्टे-
यथोक्तमिति ।
तेषां सततयुक्तानाम् इत्यादि दाशमिकं वाक्यं तत्रैव प्रमाणयति -
ददामीति ।
विद्यावतामेव भगवत्प्राप्तिनिर्देशात् इतरेषां तदप्राप्तिः सूचिता इति अर्थसिद्धम् अर्थम् आह -
अर्थादिति ।
ननु भगवत्कर्मकारिणां युक्ततमत्वात् , कर्मिणोऽपि भगवन्तं यान्ति इति आशङ्क्य आह -
भगवदिति ।
ये मत्कर्मकृत् इत्यादिन्यायेन भगवत्कर्मकारिणः, ते यद्यपि युक्ततमाः, तथापि कर्मिणः अज्ञाः सन्तः न भगवन्तं सहसा गन्तुम् अर्हन्ति इत्यर्थः ।
तेषाम् अज्ञत्वे गमकं दर्शयति -
उत्तरोत्तरेति ।
चित्तसमाधानम् आरभ्य फलत्यागपर्यन्तं पाठक्रमेण उत्तरोत्तरं हीनसाधनोपादानात् अभ्याससामर्थस्य भगवत्कर्मकारित्वाभिधानात् भगवत्कर्मकारिणाम् अज्ञत्वं विज्ञातम् इत्यर्थः ।
‘ये त्वक्षरमनिर्देश्यं’ (भ. गी. १२-३) इत्यादिवाक्यावष्टम्भेन विद्वद्विषयत्वं संन्यासपूर्वकज्ञाननिष्ठायाः निर्धारयति-
अनिर्देश्येति ।
उक्तसाधनाः तेन ते संन्यासपूर्वकज्ञाननिष्ठायाम् अधिक्रियेरन् इति शेषः ।
किञ्च त्रयोदशे यानि अमानित्वादीनि चतुर्दशे च प्रकाशं च प्रवृत्तिं च इत्यादीनि यानि, पञ्चदशे च यानि असङ्गत्वादीनि उक्तानि, तैः सर्वैः साधनैः सहिताः भवन्ति अनिर्देश्याक्षरोपासकाः । ततोऽपि ते ज्ञाननिष्ठायामेव अधिक्रियेरन् इत्याह -
क्षेत्रेति ।
निष्ठाद्वयम् अधिकारिभेदेन प्रतिष्ठाप्य, ज्ञाननिष्ठानाम् अनिष्टम् इष्टं मिश्रम् इति त्रिविधं कर्मफलं न भवति, किन्तु मुक्तिरेव । कर्मनिष्ठानां तु त्रिविधं कर्मफलं न मुक्तिः, इति शास्त्रार्थविभागम् अभिप्रेतम् उपसंहरति -
अधिष्ठानादीति ।