श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
अविद्यापूर्वकत्वं सर्वस्य कर्मणः असिद्धमिति चेत् , ; ब्रह्महत्यादिवत्यद्यपि शास्त्रावगतं नित्यं कर्म, तथापि अविद्यावत एव भवतियथा प्रतिषेधशास्त्रावगतमपि ब्रह्महत्यादिलक्षणं कर्म अनर्थकारणम् अविद्याकामादिदोषवतः भवति, अन्यथा प्रवृत्त्यनुपपत्तेः, तथा नित्यनैमित्तिककाम्यान्यपीतिदेहव्यतिरिक्तात्मनि अज्ञाते प्रवृत्तिः नित्यादिकर्मसु अनुपपन्ना इति चेत् , ; चलनात्मकस्य कर्मणः अनात्मकर्तृकस्यअहं करोमिइति प्रवृत्तिदर्शनात्देहादिसङ्घाते अहंप्रत्ययः गौणः, मिथ्या इति चेत् , ; तत्कार्येष्वपि गौणत्वोपपत्तेःआत्मीये देहादिसङ्घाते अहंप्रत्ययः गौणः ; यथा आत्मीये पुत्रे आत्मा वै पुत्रनामासि’ (तै. आ. एका. २ । ११) इति, लोके मम प्राण एव अयं गौःइति, तद्वत्नैवायं मिथ्याप्रत्ययःमिथ्याप्रत्ययस्तु स्थाणुपुरुषयोः अगृह्यमाणविशेषयोः गौणप्रत्ययस्य मुख्यकार्यार्थता, अधिकरणस्तुत्यर्थत्वात् लुप्तोपमाशब्देनयथासिंहो देवदत्तः’ ‘अग्निर्माणवकःइति सिंह इव अग्निरिव क्रौर्यपैङ्गल्यादिसामान्यवत्त्वात् देवदत्तमाणवकाधिकरणस्तुत्यर्थमेव, तु सिंहकार्यम् अग्निकार्यं वा गौणशब्दप्रत्ययनिमित्तं किञ्चित्साध्यते ; मिथ्याप्रत्ययकार्यं तु अनर्थमनुभवति इतिगौणप्रत्ययविषयं जानातिनैष सिंहः देवदत्तः’, तथानायमग्निर्माणवकःइतितथा गौणेन देहादिसङ्घातेन आत्मना कृतं कर्म मुख्येन अहंप्रत्ययविषयेण आत्मना कृतं स्यात् हि गौणसिंहाग्निभ्यां कृतं कर्म मुख्यसिंहाग्निभ्यां कृतं स्यात् क्रौर्येण पैङ्गल्येन वा मुख्यसिंहाग्न्योः कार्यं किञ्चित् क्रियते, स्तुत्यर्थत्वेन उपक्षीणत्वात्स्तूयमानौ जानीतः अहं सिंहः’ ‘ अहम् अग्निःइति ; हिसिंहस्य कर्म मम अग्नेश्चइतितथा सङ्घातस्य कर्म मम मुख्यस्य आत्मनःइति प्रत्ययः युक्ततरः स्यात् ; पुनःअहं कर्ता मम कर्मइतियच्च आहुःआत्मीयैः स्मृतीच्छाप्रयत्नैः कर्महेतुभिरात्मा कर्म करोतिइति, ; तेषां मिथ्याप्रत्ययपूर्वकत्वात्मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वकाः हि स्मृतीच्छाप्रयत्नादयःयथा अस्मिन् जन्मनि देहादिसङ्घाताभिमानरागद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवश्च, तथा अतीते अतीततरेऽपि जन्मनि इति अनादिरविद्याकृतः संसारः अतीतोऽनागतश्च अनुमेयःततश्च सर्वकर्मसंन्याससहितज्ञाननिष्ठया आत्यन्तिकः संसारोपरम इति सिद्धम्अविद्यात्मकत्वाच्च देहाभिमानस्य, तन्निवृत्तौ देहानुपपत्तेः संसारानुपपत्तिःदेहादिसङ्घाते आत्माभिमानः अविद्यात्मकः हि लोकेगवादिभ्योऽन्योऽहम् , मत्तश्चान्ये गवादयःइति जानन् तान्अहम्इति मन्यते कश्चित्अजानंस्तु स्थाणौ पुरुषविज्ञानवत् अविवेकतः देहादिसङ्घाते कुर्यात्अहम्इति प्रत्ययम् , विवेकतः जानन्यस्तु आत्मा वै पुत्र नामासि’ (तै. आ. एका. २ । ११) इति पुत्रे अहंप्रत्ययः, तु जन्यजनकसम्बन्धनिमित्तः गौणःगौणेन आत्मना भोजनादिवत् परमार्थकार्यं शक्यते कर्तुम् , गौणसिंहाग्निभ्यां मुख्यसिंहाग्निकार्यवत्

यत् उक्तम् अविद्याकामबीजं सर्वं कर्म इति, तत् न, शास्त्रावगतस्य कर्मणः अविद्यापूर्वकत्वानुपपत्तेः इति आक्षिपति -

अविद्येति ।

दृष्टान्तेन समाधत्ते -

नेति ।

तत्र अभिमतां प्रतिज्ञां विभजते -

यद्यपीति ।

उक्तं दृष्टान्तं व्याचष्टे-

यथेति ।

अविद्यादिमतः ब्रह्महत्यादि कर्म इत्यत्र हेतुम् आह -

अन्यथेति ।

दार्ष्टान्तिकं गृह्णाति -

तथेति ।

तान्यपि अविद्यादिमतः भवन्ति इति अविद्यादिपूर्वकत्वं तेषाम् एषितव्यम् इत्यर्थः ।

पारलौकिककर्मसु देहाद्यतिरिक्तात्मज्ञानं विना प्रवृत्त्ययोगात् , न तेषाम् अविद्यापूर्वकता इति शङ्कते -

व्यतिरिक्त इति ।

सत्यपि व्यतिरिक्तात्मज्ञाने, पारमार्थिकात्मज्ञानाभावात् , मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तेः अविद्यापूर्वकत्वं तेषाम् अप्रतिहतम् इति परिहरति-

नेत्यादिना ।

कर्मणः चलनात्मकत्वात् न आत्मकर्तृकत्वम् । तस्य निष्क्रियत्वात् देहादिसङ्घातस्य तु सक्रियत्वात् तत्कर्तृकं कर्म युक्तम् । तथापि सङ्घाते अहमभिमानद्वारा अहं करोमि इति आत्मनः मिथ्याधीपूर्विका कर्मणि प्रवृत्तिः दृष्टा । तेन अविद्यापूर्वकत्वं तस्य युक्तम् इत्यर्थः ।

यदुक्तं देहादिसङ्घाते अहमभिमानस्य भिथ्याज्ञानत्वं, तत् आक्षिपति -

देहादीति ।

अहन्धियः गौणत्वे, तत्पूर्वककर्मस्वपि गौणत्वापत्तेः, आत्मनः अनर्थाभावात् , तन्निवृत्त्यर्थं हेत्वन्वेषणं न स्यात् इति दूषयति  -

नेति ।

एतदेव प्रपञ्चयन् आदौ चोद्यं प्रपञ्चयति -

आत्मीयेति ।

तत्र श्रुत्यवष्टम्भेन दृष्टान्तम् आह-

यथेति ।

दर्शितश्रुतेः आत्मीये पुत्रे अहंप्रत्ययः गौणः, यथा सङ्घातेऽपि आत्मीये अहंप्रत्ययः तथा युक्तः इत्यर्थः ।

भेदधीपूर्वकत्वं गौणधियः लोके प्रसिद्धम् इत्याह -

लोके च इति ।

लोकवेदानुरोधेन आत्मीये सङ्घाते अहन्धारपि गौणः स्यात् , इति दार्ष्टान्तिकम् आह -

तद्वदिति ।

मिथ्याधियोऽपि भेदधीपूर्वकत्वसम्भवात् आत्मनि अहन्धियः मिथ्यात्वमेव किं न स्यात् इति आशङ्क्य आह-

नैवायमिति ।

भेदधीपूर्वकत्वाभावे कथं मिथ्याधीः उदेति ? इति आशङ्क्य आह-

मिथ्येति ।

अधिष्ठानारोप्ययोः विवेकाग्रहात् तदुत्पत्तिः इत्यर्थः ।

देहादौ अहन्धियः गौणता इति चाद्ये विवृते, तत्कार्येष्वपि इत्यादि परिहारं विवृणोति -

नेत्यादिना ।

हेतुभागं विभजते -

यथेति ।

सिंहः देवदत्तः इति वाक्यं, देवदत्तः सिंहः इव इति उपमया, देवदत्तं क्रौर्याद्यधिकरणं स्तोतुं प्रवृत्तम् । ‘अग्निः माणवकः’ इत्यपि वाक्यं, माणवकः अग्निः इव इति उपमया, माणवकस्य पैङ्गल्याधिकरणस्य स्तुत्यर्थमेव । न तथा  ‘मनुष्यः अहं’ इति वाक्यस्य अधिकरणस्तुत्यर्थता भाति इत्यर्थः ।

देवदत्तमाणवकयोः अधिकरणत्वं कथम् ? इति आशङ्क्य आह -

क्रौर्येति ।

किञ्च गौणशब्दं तत्प्रत्ययं च निमित्तं कृत्वा सिंहकार्यं न किञ्चित् देवदत्ते साध्यते । नापि माणवके किञ्चित् अग्निकार्यम् । मिथ्याधीकार्यं तु अनर्थम् आत्मा अनुभवति । अतः न देहादौ अहं धीः गौणी, इत्याह -

न त्विति ।

इतोऽपि देहादौ न अहन्धीः गौणी इत्याह -

गौणेति ।

यः देवदत्तः माणवको वा गौण्याः धियः विषयः, तं परः न एषः सिंहः, न अयम् अग्निः इति जानाति । न एवम् अविद्वान् आत्मनः सङ्घातस्य च सत्यपि भेदे, सङ्घातस्य अनात्मत्वं प्रत्येति । अतः न संङ्घाते अहंशब्दप्रत्ययौ गौणौ इत्यर्थः ।

सङ्घाते तयोः गौणत्वे दोषान्तरं समुच्चिनोति -

तथेति ।

तथा सति, आत्मनि कर्तृत्वादिप्रतिभासासिद्धिः इति शेषः ।

गौणेन कृतं, न मुख्येन कृतम् , इति उदाहरणेन स्फुटयति -

न हीति ।

यद्यपि देवदत्तमाणवकाभ्यां कृतं कार्यं मुख्याभ्यां सिंहाग्निभ्यां न क्रियते, तथापि देवदत्तगतक्रौर्येण मुख्यसिंहस्य, माणवकनिष्ठपैङ्गल्येन मुख्याग्नेरिव च सङ्घातगतेनापि जडत्वेन आत्मनः मुख्यस्य किञ्चित् कार्यं कृतं भविष्यति, इति आशङ्क्य आह -

न चेति ।

देहादौ अहन्धियः गौणत्वायोगे हेत्वन्तरम् आह -

स्तूयमानाविति ।

देवदत्तमाणवकयोः सिंहाग्निभ्यां भेदधीपूर्वकं तद्व्यापारवत्त्वाभावधीवत् आत्मनोऽपि मुख्यस्य सङ्घातात् भेदधीद्वारा तदीयव्यापारराहित्यम् आत्मनि दृष्टं स्यात् इत्यर्थः ।

व्यावर्त्यं दर्शयति -

न पुनरिति ।

सङ्घाते अहन्धियः मिथ्याधीत्वेऽपि न तत्कृतम् आत्मनि कर्तृत्वं, किन्तु आत्मीयैः ज्ञानेच्छाप्रयत्नैः अस्य कर्तृत्वं वास्तवम् , इति मतम् अनुवदति -

यच्चेति ।

ज्ञानादिकृतमपि कर्तृत्वं मिथ्याधीकृतमेव, ज्ञानादीनां मिथ्याधीकार्यत्वात् , इति दूषयति -

न तेषामिति ।

तदेव प्रपञ्चयति -

मिथ्येति ।

मिथ्याज्ञानं निमित्तं कृत्वा, किञ्चित् इष्टं, किञ्चित् अनिष्टम् इति आरोप्य तद्द्वारा अनुभूते तस्मिन् , प्रेप्साजिहासाभ्यां क्रियां निर्वर्त्य, तया इष्टम् अनिष्टं च फलं भुक्त्वा, तेन संस्कारेण तत्पूर्विकाः स्मृत्यादयः स्वात्मनि क्रियां कुर्वन्ति इति, युक्तं कर्तृत्वस्य मिथ्यात्वम् इत्यर्थः ।

अतीतानागतजन्मनोरिव वर्तमानेऽपि जन्मनि कर्तृत्वादिसंसारस्य वस्तुत्वम् आशङ्क्य आह-

यथेति ।

विमतौ कालौ अविद्याकृतसंसारवन्तौ, कालत्वात् , वर्तमानकालवत् , इत्यर्थः ।

संसारस्य अविद्याकृतत्वे फलितम् आह -

ततश्चेति ।

तस्य आविद्यत्वेन विद्यापोह्यत्वे हेत्वन्तरम् आह -

अविद्येति ।

कुतः अस्य अविद्याकृतत्वं, धर्माधर्मकृतत्वसम्भवात् ? इति आशङ्क्य आह -

देहादीति ।

आत्मनः धर्मादिकर्तृत्वस्य आविद्यत्वात् , न अविद्यां विना कर्मिणां देहाभिमानः सम्भवति । अतश्च आत्मनः सङ्घाते अहमभिमानस्य आविद्या विद्यमानता इत्यर्थः ।

आत्मनः देहाद्यभिमानस्य आविद्यकत्वम् अन्वयव्यतिरेकाभ्यां साधयन् , व्यतिरेकं दर्शयति -

नहीति ।

अन्वयं दर्शयन् व्यतिरेकम् अनुवदति-

अजानन्निति ।

पुत्रे पितुः अहन्धीवत् आत्मीये देहादौ अहन्धीः गौणी इति उक्तम् अनुवदति -

यस्त्विति ।

तत्र दृष्टान्तश्रुतेः गौणात्मविषयत्वम् उक्तम् अङ्गीकरोति -

स त्विति ।

तर्हि देहादावपि तथैव स्वकीये स्यात् अहन्धीः गौणी इति आशङ्क्य आह -

गौणेनेति ।

न हि स्वकीयेन पुत्रादिना गौणात्मना पितृभोजनादिकार्यं क्रियते । तथा देहादेरपि गौणात्मत्वे, तेन कर्तृत्वादिकार्यम् आत्मनः न वास्तवं सिद्ध्यति इत्यर्थः ।

गौणात्मना मुख्यात्मनः नास्ति वास्तवं कार्यम् इत्यत्र दृष्टान्तम् आह-

गौणेति ।

न हि गौणसिंहेन देवदत्तेन, मुख्यसिंहकार्यं क्रियते । नापि गौणाग्निना माणवकेन मुख्याग्निकार्यं दाहपाकादि । तथा देहादिना गौणात्मना मुख्यात्मनः न वास्तवं कार्यं कर्तृत्वादि कर्तुं शक्यम् इत्यर्थः ।