श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
अदृष्टविषयचोदनाप्रामाण्यात् आत्मकर्तव्यं गौणैः देहेन्द्रियात्मभिः क्रियत एव इति चेत् , ; अविद्याकृतात्मत्वात्तेषाम् गौणाः आत्मानः देहेन्द्रियादयः ; किं तर्हि ? मिथ्याप्रत्ययेनैव अनात्मानः सन्तः आत्मत्वमापाद्यन्ते, तद्भावे भावात् , तदभावे अभावात्अविवेकिनां हि अज्ञानकाले बालानां दृश्यतेदीर्घोऽहम्’ ‘गौरोऽहम्इति देहादिसङ्घाते अहंप्रत्ययः तु विवेकिनाम्अन्योऽहं देहादिसङ्घातात्इति जानतां तत्काले देहादिसङ्घाते अहंप्रत्ययः भवतितस्मात् मिथ्याप्रत्ययाभावे अभावात् तत्कृत एव, गौणःपृथग्गृह्यमाणविशेषसामान्ययोर्हि सिंहदेवदत्तयोः अग्निमाणवकयोर्वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यात् , अगृह्यमाणविशेषसामान्ययोःयत्तु उक्तम्श्रुतिप्रामाण्यात्इति, तत् ; तत्प्रामाण्यस्य अदृष्टविषयत्वात्प्रत्यक्षादिप्रमाणानुपलब्धे हि विषये अग्निहोत्रादिसाध्यसाधनसम्बन्धे श्रुतेः प्रामाण्यम् , प्रत्यक्षादिविषये, अदृष्टदर्शनार्थविषयत्वात् प्रामाण्यस्यतस्मात् दृष्टमिथ्याज्ञाननिमित्तस्य अहंप्रत्ययस्य देहादिसङ्घाते गौणत्वं कल्पयितुं शक्यम् हि श्रुतिशतमपिशीतोऽग्निरप्रकाशो वाइति ब्रुवत् प्रामाण्यमुपैतियदि ब्रूयात्शीतोऽग्निरप्रकाशो वाइति, तथापि अर्थान्तरं श्रुतेः विवक्षितं कल्प्यम् , प्रामाण्यान्यथानुपपत्तेः, तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं वाकर्मणः मिथ्याप्रत्ययवत्कर्तृकत्वात् कर्तुरभावे श्रुतेरप्रामाण्यमिति चेत् , ; ब्रह्मविद्यायामर्थवत्त्वोपपत्तेः

स्वर्गकामादिवाक्यप्रामाण्यात् , आत्मनः देहाद्यतिरेकज्ञानात् , तस्य च केवलस्य अकर्तृत्वात् , तत्कर्तव्यं कर्म गौणैरेव देहाद्यात्मभिः सम्पाद्यते । न हि सत्येव श्रौतातिरेकज्ञाने, देहादौ आत्मत्वम् आत्मनो मुख्यं युक्तम् , इति चीदयति -

अदृष्टेति ।

न देहादीनाम् आत्मत्वं गौणं, तदीयात्मत्वस्य आविद्यत्वेन मुख्यत्वात् , अतः न गौणात्मभिः आत्मकर्तव्यं कर्म क्रियते, किन्तु मिथ्यात्मभिः, इति परिहरति -

नाविद्येति ।

तदेव विवृण्वन् नञर्थं स्फुटयति -

न च गौणाः इति ।

कथं तर्हि देहादिविषयात्मत्वप्रथा ? इति आशङ्क्य अविद्याकृता इत्यादिहेतुं विभजते -

कथं तर्हीति ।

देहादीनाम् अनात्मनामेव सताम् आत्मत्वं मिथ्याप्रत्ययकृतम् , इत्यत्र अन्वयव्यतिरेकौ उदाहरति -

तद्भाव इति ।

उक्ते अन्वये, शास्त्रीयसंस्कारशून्यानाम् अनुभवं प्रमाणयति -

अविवेकिनाम् इति ।

व्यतिरेकेऽपि दर्शिते शास्त्राभिज्ञानाम् अनुभवम् अनुकूलयति -

न त्विति ।

अन्वयव्यतिरेकाभ्याम् अनुभवानुसारिणां सिद्धम् अर्थम् उपसंहरति-

तस्मादिति ।

तत्कृत एव देहादौ अहम्प्रत्ययः इति शेषः ।

किञ्च व्यवहारभूमौ भेदग्रहस्य गौणत्वव्यापकत्वात् , तस्य प्रकृते अभावात् , न देहादौ अहंशब्दप्रत्ययौ गौणौ इत्याह –

पृथगिति ।

अदृष्टविषयचोदनाप्रामाण्यात् , कर्तुः आत्मनः व्यतिरेकावधारणात् , तस्य देहादौ अहमभिमानस्य गौणता, इत्युक्तम् अनुवदति -

यत्त्विति ।

श्रुतिप्रामाण्यस्य अज्ञातार्थविषयत्वात् , मानान्तरसिद्धे व्यतिरिक्तात्मनि चोदनाप्रामाण्याभावात् , न तदवष्टम्भेन देहादौ आत्माभिमानस्य गौणता, इति उत्तरम् आह -

न तदिति ।

श्रुतिप्रामाण्यस्य अदृष्टविषयत्वं स्पष्टयति -

प्रत्यक्षादीति ।

अज्ञातार्थज्ञापकं प्रमाणम् , इति स्थितेः,  न ज्ञाते श्रुतिप्रामाण्यम् , इत्याह -

अदृष्टेति ।

अज्ञातसाध्यसाधनसम्बन्धबोधिनः शास्त्रस्य अतिरिक्तात्मनि औदासीन्ये फलितम् आह -

तस्मादिति ।

अन्वयव्यतिरेकाभ्यां दृष्टः मिथ्याज्ञाननिमित्तः देहादिसङ्घाते अहंप्रत्ययः, तस्य इति यावत् ।

अन्यविषयत्वात् चोदनायाः, न अतिरिक्तात्मविषयता, इति उक्तम् । इदानाीं तद्विषयत्वाङ्गीकारेऽपि न तत् निर्वोढुं शक्यं प्रत्यक्षविरोधात् इत्याह-

न हीति ।

अपौरुषेयायाः श्रुतेः असम्भावितदोषायाः मानान्तरविरोधेऽपि प्रामाण्यम् अप्रत्याख्येयम् , इति अभिप्रेत्य आह -

यदीति ।

स्वार्थं बोधयन्त्याः श्रुतेः अविरोधापेक्षत्वात् , विरुद्धार्थवादित्वे, तत्परिहाराय, विवक्षितम् अर्थान्तरम् अविरुद्धं तस्याः स्वीकर्तव्यम् , विरोधे तत्प्रामाण्यानुपपत्तेः, इत्याह -

तथापीति ।

अविरोधम् अवधार्य श्रुत्यर्थकल्पना न युक्ता, इति व्यावर्त्यम् आह -

नत्विति ।

अविद्यावत्कर्तृकं कर्म इति त्वया उपगमात् उत्पन्नायां विद्यायाम् अविद्याभावे तदधीनकर्तुः अभावात् , अन्तरेण कर्तारम् अनुष्ठानासिद्धौ कर्मकाण्डाप्रामाण्यम् इति अध्ययनविधिविरोधः स्यात् , इति शङ्कते -

कर्मण इति ।

कर्मकाण्डश्रुतेः विद्योदयात् पूर्वं व्यावहारिकप्रामाण्यस्य तात्त्विकप्रामाण्याभावेऽपि सम्भावत् , ब्रह्मकाण्डश्रुतेश्च तात्त्विकप्रामाण्यस्य ब्रह्मविद्याजनकत्वेन उपपन्नत्वात् न अध्ययनविधिविरोधः इति परिहरति -

न ब्रह्मेति ।