श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
कर्मविधिश्रुतिवत् ब्रह्मविद्याविधिश्रुतेरपि अप्रामाण्यप्रसङ्ग इति चेत् , ; बाधकप्रत्ययानुपपत्तेःयथा ब्रह्मविद्याविधिश्रुत्या आत्मनि अवगते देहादिसङ्घाते अहंप्रत्ययः बाध्यते, तथा आत्मन्येव आत्मावगतिः कदाचित् केनचित् कथञ्चिदपि बाधितुं शक्या, फलाव्यतिरेकादवगतेः, यथा अग्निः उष्णः प्रकाशश्च इति एवं कर्मविधिश्रुतेरप्रामाण्यम् , पूर्वपूर्वप्रवृत्तिनिरोधेन उत्तरोत्तरापूर्वप्रवृत्तिजननस्य प्रत्यगात्माभिमुख्येन प्रवृत्त्युत्पादनार्थत्वात्मिथ्यात्वेऽपि उपायस्य उपेयसत्यतया सत्यत्वमेव स्यात् , यथा अर्थवादानां विधिशेषाणाम् ; लोकेऽपि बालोन्मत्तादीनां पयआदौ पाययितव्ये चूडावर्धनादिवचनम्प्रकारान्तरस्थानां साक्षादेव वा प्रामाण्यं सिद्धम् , प्रागात्मज्ञानात् देहाभिमाननिमित्तप्रत्यक्षादिप्रामाण्यवत्यत्तु मन्यसेस्वयमव्याप्रियमाणोऽपि आत्मा संनिधिमात्रेण करोति, तदेव मुख्यं कर्तृत्वमात्मनः ; यथा राजा युध्यमानेषु योधेषु युध्यत इति प्रसिद्धं स्वयमयुध्यमानोऽपि संनिधानादेव जितः पराजितश्चेति, तथा सेनापतिः वाचैव करोति ; क्रियाफलसम्बन्धश्च राज्ञः सेनापतेश्च दृष्टःयथा ऋत्विक्कर्म यजमानस्य, तथा देहादीनां कर्म आत्मकृतं स्यात् , फलस्य आत्मगामित्वात्यथा वा भ्रामकस्य लोहभ्रामयितृत्वात् अव्यापृतस्यैव मुख्यमेव कर्तृत्वम् , तथा आत्मनः इतितत् असत् ; अकुर्वतः कारकत्वप्रसङ्गात्कारकमनेकप्रकारमिति चेत् , ; राजप्रभृतीनां मुख्यस्यापि कर्तृत्वस्य दर्शनात्राजा तावत् स्वव्यापारेणापि युध्यते ; योधानां योधयितृत्वे धनदाने मुख्यमेव कर्तृत्वम् , तथा जयपराजयफलोपभोगेयजमानस्यापि प्रधानत्यागे दक्षिणादाने मुख्यमेव कर्तृत्वम्तस्मात् अव्यापृतस्य कर्तृत्वोपचारो यः, सः गौणः इति अवगम्यतेयदि मुख्यं कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजयजमानप्रभृतीनाम् , तदा संनिधिमात्रेणापि कर्तृत्वं मुख्यं परिकल्प्येत ; यथा भ्रामकस्य लोहभ्रमणेन, तथा राजयजमानादीनां स्वव्यापारो नोपलभ्यतेतस्मात् संनिधिमात्रेण कर्तृत्वं गौणमेवतथा सति तत्फलसम्बन्धोऽपि गौण एव स्यात् गौणेन मुख्यं कार्यं निर्वर्त्यतेतस्मात् असदेव एतत् गीयतेदेहादीनां व्यापारेण अव्यापृतः आत्मा कर्ता भोक्ता स्यात्इतिभ्रान्तिनिमित्तं तु सर्वम् उपपद्यते, यथा स्वप्ने ; मायायां एवम् देहाद्यात्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वाद्यनर्थः उपलभ्यतेतस्मात् भ्रान्तिप्रत्ययनिमित्तः एव अयं संसारभ्रमः, तु परमार्थः ; इति सम्यग्दर्शनात् अत्यन्त एवोपरम इति सिद्धम् ॥ ६६ ॥

कर्मकाण्डश्रुतेः तात्त्विकप्रामाण्याभावे, ब्रह्मकाण्डश्रुतेरपि तदसिद्धिः, अविशेषात् , इति शङ्कते -

कर्मेति ।

उत्पन्नायाः ब्रह्मविद्यायाः बाधकाभावेन प्रमाणत्वात् , तद्धेतुश्रुतेः तात्विकं प्रामाण्यम् , इति दूषयति -

न बाधकेति ।

ब्रह्मविद्यायाः बाधकानुपपत्तिं दृष्टान्तेन साधयति -

यथेति ।

देहादिसङ्घातवत् इति अपेः अर्थः ।

लौकिकावगतेरिव आत्मावगतेरपि फलाव्यतिरेकम् उदाहरणेन स्फोरयति -

यथेति ।

कर्मविधिश्रुतिवत् इति उक्तं दृष्टान्तं विघटयति -

न चेति ।

अनादिकालप्रवृत्तस्वाभाविकप्रवृत्तिव्यक्तीनां प्रतिबन्धेन यागाद्यलौकिकप्रवृत्तिव्यक्तीः जनयति कर्मकाण्डश्रुतिः । तज्जननं च चित्तशुद्धिद्वारा प्रत्यगात्माभिमुख्यप्रवृत्तिम् उत्पादयति । तथा च कर्मविधिश्रुतीनां पारम्पर्येण प्रत्यगात्मज्ञानार्थत्वात् तात्त्विकप्रामाण्यसिद्धिः इत्यर्थः ।

ऩनु एवमपि श्रुतेः मिथ्यात्वात् धूमाभासवत् अप्रामाण्यम् , इति चेत् , न, इत्याह -

मिथ्यात्वेऽपि इति ।

स्वरूपेण असत्यत्वेऽपि सत्योपेयद्वारा प्रामाण्यम् , इत्यत्र दृष्टान्तम् आह -

यथेति ।

मन्त्रार्थवादेतिहासपुराणानां श्रुते अर्थे प्रामाण्याभावेऽपि शेषिविध्यनुरोधेन प्रामाण्यवत् , प्रकृतेऽपि, श्रुतेः स्वरूपेण असत्यायाः विषयसत्यतया सत्यत्वे प्रामाण्यम् अविरुद्धम् इत्यर्थः ।

वाक्यस्य शेषिविध्यनुरोधेन प्रामाण्यं न अलौकिकम् , इत्याह -

लोकेऽपिति ।

कर्मकाण्डश्रुतीनाम् उक्तरीत्या परम्परया प्रामाण्येऽपि, साक्षात् प्रामाण्यम् उपेक्षितम् , इति आशङ्क्य आह -

प्रकारान्तरेति ।

आत्मज्ञानोदयात् प्रागवस्था प्रकारान्तरम् । तत्र स्थितानां कर्मश्रुतीनाम् अज्ञातं सम्बन्धबोधकत्वेन साक्षादेव प्रामाण्यम् इष्टम् , इत्यर्थः ।

ज्ञानात् पूर्वं कर्मश्रुतीनां व्यावहारिकप्रामाण्ये दृष्टान्तम् आह-

प्रागिति ।

प्रातीतिककर्तृत्वस्य आविद्यकत्वेऽपि श्रुतिप्रामाण्यम् अप्रत्यूहम् इत्युक्तम् ।

सम्प्रति कर्तृत्वस्य प्रकारान्तरेण पारमार्थिकत्वम् उत्थापयति -

यत्त्विति ।

स्वव्यापाराभावे सन्निधिमात्रेण कुतः मुख्यं कर्तृत्वम् ? इति आशङ्क्य दृष्टान्तम् आह -

यथेति ।

स्वयम् अयुध्यमानत्वे कथं तत्फलवत्त्वम् ? इति आशङ्क्य, प्रसिद्धिवशात् इत्याह -

जित इति ।

कायिकव्यापाराभावेऽपि कर्तृत्वस्य मुख्यत्वे दृष्टान्तमाह -

सेनापतिरिति ।

तस्यापि फलवत्त्वं राजवत् अविशिष्टम् , इत्याह -

क्रियेति ।

अन्यकर्मणा अन्यस्य सन्निहितस्य मुख्ये कर्तृत्वे वैदिकम् उदाहरणम् आह -

यथा चेति ।

कथम् ऋत्विजां कर्म यजमानस्य ? इति आशङ्क्य आह -

तत्फलस्येति ।

स्वव्यापारादृते सन्निधेरेव अन्यव्यापारहेतोः मुख्यकर्तृत्वे दृष्टान्तान्तरम् आह-

यथा वेति ।

क्रियां कुर्वत् कारणं कारकम् इति अङ्गीकारविगेधात् न एतत् इति दूषयति -

तदसदिति ।

कारकविशेषविषयत्वेन अङ्गीकारोपपत्तिः इति शङ्कते -

कारकमिति ।

स्वव्यापारम् अन्तरेण न किञ्चिदपि कारकम् इति परिहरति -

न राजेति ।

दर्शनमेव विशदयति -

राजेति ।

यथा राज्ञः युद्धे योधयितृत्वेन धनदानेन च मुख्यं कर्तृत्वं, तथा फलभोगेऽपि मुख्यमेव तस्य कर्तृत्वम् , इत्याह -

तथेति ।

यत् उक्तम् , ऋत्विक्कर्म यजमानस्य इति, तत्र आह -

यजमानस्यापीति ।

स्वव्यापारादेव मुख्यं कर्तृत्वम् इति स्थिते फलितम् आह -

तस्मादिति ।

तदेव प्रपञ्चयति -

यदीति ।

तर्हि सन्निधानादेव मुख्यं कर्तृत्वं राजादीनाम् उपगतम् इति ? न इत्याह -

न तथेति ।

राजादीनां स्वव्यापारवत्त्वे पूर्वोक्तं सिद्धम् इत्याह -

तस्मादिति ।

राजप्रभृतीनां सन्निधेरेव कर्तृत्वस्य गौणत्वे जयादिफलवत्त्वस्यापि सिद्धं गौणत्वम् , इत्याह -

तथा चेति ।

तत्र पूर्वोक्तं हेतुत्वेन स्मारयति-

नेति ।

अन्यव्यापारेण अन्यस्य मुख्यकर्तृत्वाभावे फलितम् उपसंहरति-

तस्मादिति ।

कथं तर्हि त्वया आत्मनि कर्तृत्वादि स्वीकृतम् ? न हि बुद्धेः तत् इष्टम् , कर्ता शास्त्रार्थवत्त्वात् इति न्यायात् । तत्र आह -

भ्रान्तीति ।

कर्तृत्वादि आत्मनि भ्रान्तम् इति एतत् उदाहरणेन स्फोरयति -

यथेति ।

मिथ्याज्ञानकृतम् आत्मानि कर्तृत्वादि, इत्यत्र व्यतिरेकं दर्शयति - न चेति । उक्ताव्यतिरेकफलं कथयति -

तस्मादिति ।

संसारभ्रमस्य अविद्याकृतत्वे सिद्धे परमप्रकृतम् उपसंहरति-

इति सम्यक् इति ।

॥ ६६ ॥