श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इमं परमं गुह्यं
मद्भक्तेष्वभिधास्यति
भक्तिं मयि परां कृत्वा
मामेवैष्यत्यसंशयः ॥ ६८ ॥
यः इमं यथोक्तं परमं परमनिःश्रेयसार्थं केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्यं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्सु अभिधास्यति वक्ष्यति, ग्रन्थतः अर्थतश्च स्थापयिष्यतीत्यर्थः, यथा त्वयि मयाभक्तेः पुनर्ग्रहणात् भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने पात्रं भवतीति गम्यतेकथम् अभिधास्यति इति, उच्यतेभक्तिं मयि परां कृत्वाभगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियतेइत्येवं कृत्वेत्यर्थःतस्य इदं फलम्मामेव एष्यति मुच्यते एवअसंशयः अत्र संशयः कर्तव्यः ॥ ६८ ॥

परमत्वं ग्रन्थस्य निरतिशयपुरुषार्थसाधनत्वम् इत्याह-

परममिति ।

गोप्यत्वम् अस्य रहस्यार्थविषयत्वात् ।

यथोक्तसंवादस्य ग्रन्थतः अर्थतश्च भक्तेषु स्थापने दृष्टान्तम् आह -

यथेति ।

मयि - वासुदेवे भगवति, अनन्यभक्ते त्वयि यथा मया ग्रन्थः अर्थतः स्थापितः, तथा मद्भक्तेषु अन्येष्वपि यः ग्रन्थम् इमं स्थापयिष्यति, तस्य इदं फलम् इति उत्तरत्र सम्बन्धः ।

न अभक्ताय इति भक्तेः अधिकारिविशेषणत्वोक्तेः मद्भक्तेषु इति पुनः भक्तिग्रहणम् अनर्थकम् इति आशङ्क्य आह -

भक्तेरिति ।

शुश्रूषादिसहकारिराहित्यं केवलशब्दार्थः । यद्यपि मात्रशब्देन सूचितम् एतत् , तथापि इतरेण स्फुटीकृतम् इति अविरोधः ।

प्रश्नपूर्वकम् अभिधानप्रकारम् अभिनयति -

कथम् इत्यादिना ।

भगवति भक्तिकरणप्रकारं प्रकटयति -

भगवत इति ।

यच्छब्दापेक्षितं पूरयति -

तस्येति ।

माम् एष्यत्येव इति अन्वयं गृहीत्वा व्याचष्ठे -

मुच्यत एवेति

॥ ६८ ॥