ननु सर्वेषां मुक्तिसाधनानां ध्यानस्य श्रेष्ठत्वात् , तन्निष्ठस्य मुमुक्षोः नास्ति विद्यासम्प्रदाने प्रवृत्तिः, इति तत्राह -
किं चेति ।
इतश्च विद्यासम्प्रदानं मुमुक्षुणा यथोक्तविशेषणवते कर्तव्यम् इत्यर्थः । वर्तमानेषु मध्ये ततः अन्यः नास्त्येव प्रियकृत्तमः । नापि आतीतेषु तादृक् कश्चित् आसीत् इति शेषः । तस्मात् विद्यासम्प्रदायकर्तुः सकाशात् इत्यर्थः । ध्याननिष्ठस्य श्रेष्ठत्वेऽपि स्वसम्प्रदायप्रवक्तुः श्रेष्ठतमत्वात् उचिता विद्यासम्प्रदाने प्रवृत्तिः इति भावः
॥ ६९ ॥