श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कच्चिदेतच्छ्रुतं पार्थ
त्वयैकाग्रेण चेतसा
कच्चिदज्ञानसंमोहः
प्रणष्टस्ते धनञ्जय ॥ ७२ ॥
शिष्यस्य शास्त्रार्थग्रहणाग्रहणविवेकबुभुत्सया पृच्छति । तदग्रहणे ज्ञाते पुनः ग्राहयिष्यामि उपायान्तरेणापि इति प्रष्टुः अभिप्रायः । यत्नान्तरं च आस्थाय शिष्यस्य कृतार्थता कर्तव्या इति आचार्यधर्मः प्रदर्शितो भवति —

आचार्येण शिष्याय, यावत् अज्ञानसंशयविपर्यासः, तावत् अनेकधा उपदेष्टव्यम् इति दर्शयितुं भगवन् अर्जुनं पृष्टवान् इत्याह-

शिष्यस्येति ।

प्रष्टुः अभिप्रायं प्रकटयति -

तदग्रहण इति ।

शिष्यश्चेत् उक्तं गृहीतुं न ईष्टे, तर्हि तं प्रति औदासीन्यम् आचार्यस्य उचितम् , तस्य मन्दबुद्धित्वात् , इति आशङ्क्य, आह -

यत्नान्तरमिति ।

कच्चिदिति कोमलप्रश्ने ।