श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सञ्जय उवाच —
इत्यहं वासुदेवस्य पार्थस्य महात्मनः
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥
इति एवम् अहं वासुदेवस्य पार्थस्य महात्मनः संवादम् इमं यथोक्तम् अश्रौषं श्रुतवान् अस्मि अद्भुतम् अत्यन्तविस्मयकरं रोमहर्षणं रोमाञ्चकरम् ॥ ७४ ॥

वासुदेवस्य - सर्वज्ञस्य, कृतार्थस्य पार्थस्य - पृथासुतस्य अर्जुनस्य महात्मनः - अक्षुद्रबुद्धेः सर्वाधिकारिगुणसम्पन्नस्य सम्यञ्चं वादं - संवादं, गुरुशिष्यभावेन प्रश्नप्रतिवचनाभिधानम् इमं - अनुक्रान्तम् अद्भुतं - विस्मयकरं, रोमाणि हृष्यन्ति पुलकीभवन्ति अनेन इति रोमहर्षणं - आह्लादकरं यथोक्तं श्रुतवान् अस्मि इति आह -

इत्येवमिति

॥ ७४ ॥