ईशावास्योपनिषद्भाष्यम्
आनन्दगिरिटीका (ईशावास्य)
 
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) ‘विनाशेन मृत्युं तीर्त्वा असम्भूत्यामृतमश्नुते’ (ई. उ. १४) इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निर्धारणार्थं सङ्क्षेपतो विचारणां करिष्यामः । तत्र तावत्किंनिमित्तः संशय इति, उच्यते — विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते, अमृतत्वं च ? ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः । सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् ; यथा अविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकम् , तथा तद्विरोधाविरोधावपि । यथा च ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ‘अध्वरे पशुं हिंस्यात्’ इति, एवं विद्याविद्ययोरपि स्यात् ; विद्याकर्मणोश्च समुच्चयः । न ; ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ (क. उ. १ । २ । ४) इति श्रुतेः । ‘विद्यां चाविद्यां च’ इति वचनादविरोध इति चेत् , न ; हेतुस्वरूपफलविरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात् समुच्चयविधानादविरोध एवेति चेत् , न ; सहसम्भवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत् , न ; विद्योत्पत्तौ तदाश्रयेऽविद्यानुपपत्तेः ; न हि अग्निरुष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम् , तस्मिन्नेवाश्रये शीतोऽग्निरप्रकाशो वा इत्यविद्याया उत्पत्तिः । नापि संशयः अज्ञानं वा, ‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति शोकमोहाद्यसम्भवश्रुतेः । अविद्यासम्भवात्तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवोचाम । ‘अमृतमश्नुते’ इत्यापेक्षिकममृतम् ; विद्याशब्देन परमात्मविद्याग्रहणे ‘हिरण्मयेन’ (ई. उ. १५) इत्यादिना द्वारमार्गयाचनमनुपपन्नं स्यात् । तस्मात् यथाव्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥

मन्त्रान्पदशो व्याख्याय संक्षेपतो विचारमारभते -

अविद्यया मृत्युं तीर्त्वेत्यादिना ।

अमृतत्वं चेति ।

अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति सम्बन्धः ।

शास्त्रीययोर्ज्ञानकर्मणोर्विरोधाविरोधी शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोक्ते सिद्धान्ती शास्त्रसिद्ध एव विरोध इत्याह -

न दूरमेते इति ।

विषूची नानागतौ विद्याविद्ये दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः ।

सहसम्भवानुपपत्तेरिति ।

काऽनुपपत्तिः? काठते विरोधश्रवणात् तद्गतविद्याविद्ययोर्विरोधोऽस्तु । इह त्वविरोधश्रवणादविरोधो भविष्यतीति न वाच्यम् । विरोधाविरोधयोः सिद्धत्वेन विकल्पासम्भवात् । उदितानुदितहोमयोर्हि पुरुषतन्त्रत्वाद्युक्तो विकल्प इत्युक्तं, तर्ह्यविरोध एवास्तु समुच्चयविधिबलादिति चेन्न । मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्यायोरिव सहसम्भवानुपपत्तेः समुच्चयविधिरसिद्धः । सिद्धे समुच्चयविधौ तद्बलादविरोधावगमोऽविरोवावगमाच्च समुच्चयसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः ।

सहसम्भवानुपपत्तावपि क्रमेणैकाश्रये विद्याविद्ये स्यातामिति चेद्यदि पूर्वमविद्या पश्चात्तु विद्येति क्रमस्तर्हीष्यत एव । यदि पश्चात्तर्ह्यसम्भव इत्याह -

न विद्योत्पत्ताविति ।

पूर्वसिद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्चोत्पत्तौ कारणासम्भवान्मूलाभावेन भ्रमसंशयाग्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः ।

विद्योत्पत्तौ मा भूदविद्या कर्म तु भविष्यति विदुषोऽपि व्याख्यानभिक्षाटनादिदर्शनादित्याशङ्क्याह -

अविद्याऽसम्भवादिति ।

चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं ब्रह्मात्मैकत्वं तु साक्षादनुभवतो न चोदना सम्भवति कामाभावात्कामिनो हि सर्वाश्चोदनाः । ‘अकामिनः क्रिया काचिद् दृश्यते नेह कस्यचित्। यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥’ इति स्मरणात् । विद्वच्छरीरस्थितिहेत्वविद्यालेशाश्रयकर्मशेषनिमित्तं तु विदुषो भिक्षाटनादि न कर्म, चोदनाभावात्किन्तु यावत्प्राणशरीरसंयोगभावि तत्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविद्याया असम्भवान्नैव किञ्चित्करोमीति प्रत्ययाच्चेयति भावः ।

यदुक्तममृतशब्देन मुख्यमेवामृतत्वं किं न गृह्यते विद्याशब्देन च परमात्मविद्येति तत्राऽऽह -

अमृतमिति ।

मुख्यामृत्वग्रहणे हिरण्मयादिमन्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात् । न तस्य प्राण उत्क्रामन्त्यत्र ब्रह्म समश्नुन इत्यादिश्रुतेः । ततो मुख्यार्थबाधाद्गौणार्थग्रहणं युक्तमित्यर्थः । यस्मादर्शान्तरं न सङ्गच्छते तस्मादित्युपसंहारः ॥ १८ ॥

ईशाप्रभृतिभाष्यस्य शाङ्करस्य परात्मनः ।
मन्दोपकृतिसिद्ध्यर्थं प्रणीतं दिप्पणं स्फुटम् ॥

इति श्रीपरमहंसपरिव्राजकाचार्य श्रीशुद्धानन्दमगवत्पूज्यपादशिष्यभगवदानन्दज्ञानकृता वाजसनेयसंहितोपनिषद्भाष्यटीका समाप्ता ॥