ईशावास्योपनिषद्भाष्यम्
आनन्दगिरिटीका (ईशावास्य)
 
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह
रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं
तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
हे पूषन् जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे । तथा सर्वस्य संयमनाद्यमः हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर तेजः तावकं ज्योतिः । यत् ते तव रूपं कल्याणतमम् अत्यन्तशोभनम् , तत् ते तवात्मनः प्रसादात् पश्यामि । किञ्च, अहं न तु त्वां भृत्यवद्याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात् , पूर्णं वानेन प्राणबुद्ध्यात्मना जगत्समस्तमिति पुरुषः ; पुरि शयनाद्वा पुरुषः । सोऽहम् अस्मि भवामि ॥

व्याहृत्यव इति ।

तस्य भूरिति शिरः भुव इति बाहू सुवरिति प्रतिष्ठा पादावित्यर्थः ॥ १६-१७ ॥