ईशावास्योपनिषद्भाष्यम्
आनन्दगिरिटीका (ईशावास्य)
 
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् ; एतावती संसारगतिः । अतः परं पूर्वोक्तम् ‘आत्मैवाभूद्विजानतः’ इति सर्वात्मभाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य प्रकाशने अत ऊर्ध्वं बृहदारण्यकम् । तत्र निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया, तदुक्तम् — ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. १) इति, तत्र सोऽधिकारी केन मार्गेणामृतत्वमश्नुते इत्युच्यते — ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ५ । ५ । २) एतदुभयं सत्यं ब्रह्मोपासीनः यथोक्तकर्मकृच्च यः, सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते —

विस्तरेेणोक्तमर्थजातं संक्षिप्योपसंहरति -

मानुषदैववित्तसाध्यमित्यादिना ।

शरीरपाटवं गोभूहिरण्यादिसाधनसम्पतिश्च मानुषं वित्तम् । दैवं वित्तं देेवताज्ञानम् ।

उत्तरग्रन्थस्य सम्बन्धाभिधित्सयाऽर्थविशेषमनुवदति -

तत्र निषेकादीत्यादिना ।

तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपेक्षिकामृतत्वं फलमित्युक्तमस्माभिरिति ॥ १५ ॥