ईशावास्योपनिषद्भाष्यम्
आनन्दगिरिटीका (ईशावास्य)
 
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठ—त्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
अनेजत् न एजत् । ‘एजृ कम्पने’, कम्पनं चलनं स्वावस्थाप्रच्युतिः, तद्वर्जितम् , सर्वदा एकरूपमित्यर्थः । तच्च एकं सर्वभूतेषु । मनसः सङ्कल्पादिलक्षणात् जवीयो जववत्तरम् । कथं विरुद्धमुच्यते — ध्रुवं निश्चलमिदम् , मनसो जवीय इति च ? नैष दोषः, निरुपाध्युपाधिमत्त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यते — अनेजदेकम् इति । मनसः अन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्योपाधेरनुवर्तनात् । इह देहस्थस्य मनसो ब्रह्मलोकादिदूरस्थसङ्कल्पनं क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोकप्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इवात्मचैतन्याभासो गृह्यते । अतः मनसो जवीयः इत्याह । नैनद्देवाः, द्योतनाद्देवाः चक्षुरादीनीन्द्रियाणि, एनत् प्रकृतमात्मतत्त्वं नाप्नुवन् न प्राप्तवन्तः । तेभ्यो मनो जवीयः । मनोव्यापारव्यवहितत्वादाभासमात्रमप्यात्मनो नैव देवानां विषयीभवति ; यस्माज्जवनान्मनसोऽपि पूर्वमर्षत् पूर्वमेव गतम् , व्योमवद्व्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सत् , उपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह — तत् धावतः द्रुतं गच्छतः अन्यान् आत्मविलक्षणान्मनोवागिन्द्रियप्रभृतीन् अत्येति अतीत्य गच्छतीव । इवार्थं स्वयमेव दर्शयति — तिष्ठदिति, स्वयमविक्रियमेव सदित्यर्थः । तस्मिन् आत्मतत्त्वे सति नित्यचैतन्यस्वभावे, मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृत्क्रियात्मकः, यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च, यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा, अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि, दधाति विभजतीत्यर्थः, धारयतीति वा ; ‘भीषास्माद्वातः पवते’ इत्यादिश्रुतिभ्यः । सर्वा हि कार्यकरणविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥

अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिनः केचन नरकगामिन इति सांसारिकव्यवस्था स्यादिति चेन्मनउपाधिनिबन्धनेत्यभिप्रेत्याऽह -

मनस इत्यादिना ।

उपाधेरनुवर्तनात् विक्रियादिव्यवहाराश्रयत्वमिति शेषः ।

ननु मनसो देहान्तःस्थात्वद्बहिर्गमनायोग्यत्वात्कथं वेगवत्त्वमित्याशङ्क्याह -

देहस्थस्येति ।

जवीयस्त्वादश्वादिवत्तर्हि चक्षुरादिग्राह्यत्वं प्राप्तमित्याशङ्क्याऽऽह -

नैनद्दैवा इति ।

चक्षुरादिप्रवृत्तेर्मनोव्यापारपूर्वकत्वात्तदविषयत्वे चक्षुरादिविषयत्वमप्यात्मतो न सम्भवतीत्यर्थः ।

मनसो वा कथं न विषय आत्मेत्यत आह -

यस्मादिति ।

यथा मनःस्थं परिमाणं मनसो न विषयोऽत्यन्ताव्यवधानातथाऽऽत्माऽप्यन्ताव्यवधानान्मनसो न विषयस्तद्वयापकत्वाच्चेत्यर्थः ।

उक्तात्मसम्भावनायोपपत्तिमाह -

तस्मिन्नात्मतत्त्वे सतीति ।

श्रौतानि कर्माणि सोमाज्यपयः प्रभृतिभिरिद्भिः सम्पाद्यन्त इति सम्बन्धाल्लाक्षणिकोऽप्शब्दः कर्मसु प्राणचेष्टायाश्चाब्निमितत्वप्रसिद्धेः; कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्ता इत्यर्थः ।

ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्त्यन्यथानुपपत्त्याऽधिष्ठाता परमेश्वरः सम्भाव्यत इत्युक्तामिदानीं मातरिश्वग्रहणमुपलक्षणार्थमादाय तात्पर्यमाह -

सर्वा हीति ॥ ४ ॥