ईशावास्योपनिषद्भाष्यम्
आनन्दगिरिटीका (ईशावास्य)
 
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥
तत् आत्मतत्त्वं यत्प्रकृतम् एजति चलति तदेव च नैजति स्वतो नैव चलति, स्वतः अचलमेव सत् चलतीवेत्यर्थः । किञ्च, तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर इव । तदु अन्तिके समीपे अत्यन्तमेव विदुषाम् , आत्मत्वात् न केवलं दूरे, अन्तिके च । तत् अन्तः अभ्यन्तरे अस्य सर्वस्य, ‘य आत्मा सर्वान्तरः’ इति श्रुतेः, अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य । तत् उ सर्वस्य अस्य बाह्यतः ; व्यापित्वादाकाशवन्निरतिशयसूक्ष्मत्वादन्तः ; ‘प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इति शासनान्निरन्तरं च ॥

जामिता - आलस्यम् । व्यापित्वाद्बाह्यतोऽस्ति निरतिशयसूक्ष्मत्वादन्तश्चेदस्ति तर्हि निरन्तरमेकरसं न स्यान्मानाभावादित्याशङ्क्याऽऽह -

प्रज्ञानघन एवेति ॥ ५ ॥