निरतिशयानन्दस्वरूपमत एव दुःखास्पृष्टमात्मानमजानतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति । ततः पुत्रादीन्कामयते तदर्थं देवताराधनादि चिकीर्षति न त्वात्मैकत्वं पश्यतस्ततोऽन्वयव्यतिरेकाभ्यां शोकादेरविद्याकार्यत्वावधारणान्मूलाविद्यानिवृत्त्यैव शोकादेरात्यन्तिकी निवृत्तिर्विद्याफलत्वेन विवक्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह -
शोकश्च मोहश्चेत्यादिना ॥ ७ ॥