योऽयमिति ।
‘स्नु’ प्रक्षरणे धातुः । स्नावयन्ति शरीरमिति स्नावाः शिराः । क्रान्तमतिक्रान्तं नष्टमित्युपलक्षणं भूतभविष्यद्वर्तमानदर्शी ॥ ८ ॥