प्रकरणविभागं दिदर्शयिषुर्वृत्तमनुवदति -
अत्राऽऽद्येनेति ।
यदुक्तं भास्करेण सर्वाऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचिमिति । तदसत् । प्राणाद्युपासनविधानस्याप्युपनिषत्सु दर्शनात् । न च तदपि ब्रह्मज्ञानाङ्गमिति वाच्यम् । पृथक्फलश्रवणात् । तेनापि व्याकृताव्याकृतोपासनसमुच्चयविधानस्य प्रकरणभेदेनैवेष्टत्वाद्व्याकृताव्याकृतोपासनस्य प्रकारान्तरत्वात्तस्माद्यथा कर्मकाण्डेऽग्निहोत्रादिप्रकरणं भिन्नमेवेष्यते भिन्नाधिकारत्वात्तत्तत्कर्मणस्तथोपनिषत्स्वपि भिन्नाधिकारत्वात्कर्माविरुद्धतद्धिरुद्धविद्याप्रकरणभेदो न विरुध्यते ।
मन्त्रार्थे ब्राह्मणसम्मतिं दर्शयितुमुपक्रमते -
अनयोश्चेत्यादिना ।
तत्र वाक्ये कथमज्ञत्वमवगम्यत इत्याशङ्क्याऽऽह -
मन एवेति ।
“जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय”(बृ.उ. १-४-१७) इति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न सम्पद्यते तदाऽध्यात्मं जायादिसम्पर्त्ति दर्शयति । एतच्चाज्ञत्वलिङ्गं मन आदिष्वात्मत्वाद्यभिमानस्याज्ञानकार्यत्वात् । यथा च बाह्यकामिन्यलाभे सुप्तो मनोविजृम्भितकामिनीमुपभुञ्जानोऽज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः ।
तेषां च कर्मणां फलं संसाराप्तिरेवेत्यपि तत्रैव दर्शितमित्याह -
तथा चेति ।
एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासौ वा; त्रीण्यस्य भोगसाधनानि मनोवाक्प्राणलक्षणानि; पश्वर्थमेकं तत्पय इति सप्तान्नसर्गोदर्शितः श्रुत्या यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेत्यादिना । अत्रैकैको यजमान एव विहितप्रतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्य संसारस्य साक्षात्पारम्पर्याभ्यां जनकत्वात्पितोच्यते । तेषु च सृष्टेष्वन्नेषु तस्य पितुरहमिदं ममेदमित्यात्मत्वाध्यासेन मनआदिष्वितरेषु च सम्बन्धाध्यासेनावस्थानं संसारः प्रसिद्ध इत्यर्थः ।
एवं मन्त्रप्रदर्शिते निष्ठाद्वये ब्राह्मणसम्मतिं दर्शयित्वा प्रकरणविभागं दर्शयति -
ये तु ज्ञाननिष्ठा इत्याविना ।
अत्याश्रमिभ्य इति ।
उत्तमाश्रमिभ्य इत्यर्थः । साध्यसाधनभेदोपमर्देन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणि भूतान्यात्मैवाभूदित्यवधारणेनोक्तं पूर्वार्धेन, उत्तरार्धेन च संसारनिवृत्तिफलकमुक्तं तन्न श्रौतेन स्मार्तेन वा कर्मणा केनचिदमूढः समुच्चिचीषति । अन्धं तम इत्यादौ तु समुच्चिचीषयाऽविद्वदादिनिन्दा दृश्यते ।
ततः किमित्यत आह -
तत्र च यस्येति ।
कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः समभ्वतीत्यत आह -
यद्दैवं वित्तमिति ।
यच्चोक्तं भास्करेणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रान्तत्वात्तस्या एव समुच्चिचीषया निन्दोच्यत इति । तदसत् । न हि प्रकृतमित्येतावता सम्बध्यते किं चु सम्बन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कर्तृत्वाद्यध्यासोपमर्दकत्वान्नास्ति कर्मसम्बन्धयोग्यता । किञ्च यस्मिन्निष्पन्नेऽपि फलस्य व्यवधानं सम्भाव्यते तस्यैव सहकारिसमुच्चय इष्यते दर्शादेः, इह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्येकत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफलम् । ततो न सहकारिसमुच्चिचीषा । किञ्चास्या मन्त्रोपनिषदो ब्राह्मणे “ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्यादौ तृतीयाश्रुत्या यज्ञादेरिष्यमाणवेदने क्ररणत्वेन सम्बन्धः प्रतीयते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया सम्बन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सहकारिसम्बन्धविधित्सया निन्देत्यप्ययुक्तम् । अत एव चाग्नीन्धनाद्यनपेक्षेतिसूत्रविरोधश्च । प्रधानस्य च विद्यायाः सहकारिसम्बन्धविधित्सया निन्देत्यप्ययुक्तम् । अत एव चाग्नीन्धनाद्यनपेेक्षेतिसूूत्रविरोधश्च । समुच्चयश्च परेणापि नेष्यते । विरोधेन च परिजह्रे । तस्मात्कर्माविरुद्धदेवताज्ञानस्यैवात्र समुच्चयो विधित्स्यते ।
ननु देवताज्ञानस्य कर्मफलातिरिक्तफलाभावात्समुच्चयो न सम्भवतीत्यत आह -
विद्ययेति ।
ननु समुच्चिचीषया निन्देति किमिति व्याख्यायते । अध्ययनविधेर्मोक्षादर्वाक्पर्यवसानानुपपत्तेर्देवलोकादिप्राप्तेः फलाभासत्वात्प्रहाणार्थैव निन्दा किं नेष्यते तत्राऽऽह -
तयोर्ज्ञानकर्मणोरिति ।
न फलशब्दो मोक्षे रूढो मोक्षमनिच्छतामपि समीहिते फलव्यवहारदर्शनात्ततो यो देवलोकादिमुकपादित्सते तस्य तदपि फलं भवत्येवेत्यर्थः ॥ १-१०-११ ॥