ईशावास्योपनिषद्भाष्यम्
आनन्दगिरिटीका (ईशावास्य)
 
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥ १४ ॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन, विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेनोच्यते ‘विनाशः’ इति । तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्युं तीर्त्वा, हिरण्यगर्भोपासनेन ह्यणिमादिप्राप्तिः फलम् , तेनानैश्वर्यादिमृत्युमतीत्य, असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयलक्षणम् अश्नुते । ‘सम्भूतिं च विनाशं च’ इत्यत्रावर्णलोपेन निर्देशो द्रष्टव्यः, प्रकृतिलयफलश्रुत्यनुरोधात् ॥

चित्तन्त्रा माया परमेश्वरस्योपाधिः । “मायां तु प्रकृतिं विद्यान्मायिनंतुमहेश्वरमि”(श्वे. उ. ४ । १०) त्यादिश्रुत्यन्तरप्रसिद्धाऽत्रासम्भूतिश्ब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षात्प्रकृतित्वानुपपत्तेः । भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके२ निरस्त एवास्माभिः । सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्थ्यमानताऽप्युपपद्यते । फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो जडत्वात्प्रकृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुचोद्यमेव ॥१२-१३-१४ ॥