चित्तन्त्रा माया परमेश्वरस्योपाधिः । “मायां तु प्रकृतिं विद्यान्मायिनंतुमहेश्वरमि”(श्वे. उ. ४ । १०) त्यादिश्रुत्यन्तरप्रसिद्धाऽत्रासम्भूतिश्ब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षात्प्रकृतित्वानुपपत्तेः । भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके२ निरस्त एवास्माभिः । सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्थ्यमानताऽप्युपपद्यते । फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो जडत्वात्प्रकृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुचोद्यमेव ॥१२-१३-१४ ॥