विस्तरेेणोक्तमर्थजातं संक्षिप्योपसंहरति -
मानुषदैववित्तसाध्यमित्यादिना ।
शरीरपाटवं गोभूहिरण्यादिसाधनसम्पतिश्च मानुषं वित्तम् । दैवं वित्तं देेवताज्ञानम् ।
उत्तरग्रन्थस्य सम्बन्धाभिधित्सयाऽर्थविशेषमनुवदति -
तत्र निषेकादीत्यादिना ।
तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपेक्षिकामृतत्वं फलमित्युक्तमस्माभिरिति ॥ १५ ॥