ईशावास्योपनिषद्भाष्यम्
आनन्दगिरिटीका (ईशावास्य)
 
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
कथं पुनरिदमवगम्यते — पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठेति ? उच्यते — ज्ञानकर्मणोर्विरोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम् ? इहाप्युक्तम् — यो हि जिजीविषेत्स कर्माणि कुर्वन्नेव इति ; ‘ईशा वास्यमिदं सर्वम्’, ‘तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्विद्धनम्’ इति च । ‘न जीविते मरणे वा गृधिं कुर्वीतारण्यमियात् इति पदं ततो न पुनरेयात्’ ( ? ) इति च संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । ‘इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्च’ ( ? ) ; तयोः संन्यास एवातिरेचयति — ‘न्यास एवात्यरेचयत्’ (तै. नारा. ७८) इति तैत्तिरीयके । ‘द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभाषितः’ (मो. ध. २४१ । ६) इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोः प्रदर्शयिष्यामः ॥

पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्यं मन्त्रद्वयस्येत्येकदेशिशङ्कामुद्भावयति -

कथं पुनरिति ।

शुद्धब्रह्मज्ञानकर्मणी नैकाधिकारे विरुद्धत्वादृतुगमनत्रिदण्डिधर्मवत् । अस्त्येव तत्रापि क्रमेणैककर्तृकत्वमिति चेन्न । विशिष्टरूपभेदाद्भिन्नाधिकारत्वात् । यच्चोक्तं ज्ञानकर्मणोर्वेदविहितत्वेन शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदसत् । ऋतुगमनत्रिदण्डिधर्मयोरप्यविरोधप्रसङ्गात् । तदुभयं नैकस्य विहितमिति चेतुल्यमेतत् । प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि ‘न कर्मणा न प्रजया’(तै. ना. १२) ‘नानुध्यायाद्वहूञ्छब्दान्’ इत्यादिप्रतिषेधस्तुल्यः ।

केवलकर्मविषयो निषेध इति न च वाच्यं केवलपदव्यवच्छेद्याभावात्समुच्चयविधेरद्याप्यनिश्चितत्वात्तस्मान्न समच्चये तात्पर्यं मन्त्रद्वयस्येत्याह -

ज्ञानकर्मणोर्विरोधमिति ।

कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति सम्बन्धग्रन्थे यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरसि येनैकाधिकारत्वं तयोः कल्पयसीत्यर्थः ।

मन्त्रलिङ्गादपि तयोर्भिन्नाधिकारत्वं प्रतीयत इत्याह -

इहाप्युक्तमिति ।

जिजीविषो रागिणः कर्म विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः । किञ्च धनसम्पन्नस्यैव कर्मण्यधिकारः । प्रथममन्त्रार्थाधिकारिणश्च धनाकाङ्क्षानिषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः ।

जिजीविषा हि कर्माधिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह -

न जीवित इति ।

अरण्यं स्त्रीजनासङ्कीर्णमाश्रममियाद्गच्छेदिति पदं वेदशास्त्रस्थितिस्ततोऽरण्यवासोपलक्षितात्संन्यासान्न पुनरियात्कर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादिति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः ।

इतश्च नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह -

उभयोरिति ।

को मोहः कः शोक एकत्वमनुपश्यत इति सनिदानानर्थप्रहाणं ज्ञानफलं वक्ष्यति । संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति । अग्ने नय सुपथेत्यन्तेनेत्यर्थः ।

नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति -

इमौ द्वावेवेति ।

पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ भिन्नाधिकारित्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थाव्यवधानादित्यर्तः ।

व्यासवाक्यमपि सम्वादकमाह -

द्वाविमाविति ॥ २ ॥