ईशावास्योपनिषद्भाष्यम्
आनन्दगिरिटीका (ईशावास्य)
 
एवमात्मविदः पुत्राद्येषणात्रयसंन्यासेनात्मज्ञाननिष्ठतया आत्मा रक्षितव्य इत्येष वेदार्थः । अथेतरस्य अनात्मज्ञतयात्मग्रहणाशक्तस्य इदमुपदिशति मन्त्रः —

आद्यमन्त्रस्य पूर्वार्धेन तत्त्वोपदेशः कृतस्तृतीयपादेनापरिपक्वज्ञानस्य संन्यासविधिरुक्तश्चतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षिप्यार्थमनुवदत्युत्तरस्य सम्बन्धाभिधित्सया -

एवमात्मविद इत्यादिना ।