चिकीर्षितं प्रतिजानीति -
काठकेति ।
ननूपनिषदो वृत्तिर्नाऽऽरब्धव्या प्राणिनां कामकलुषितचेतसामुपनिषच्छ्रवणात्पराङ्मुखत्वाद्विशिष्टस्याधिकारिणो दुर्निरूपत्वाद्बन्धस्य च सत्यस्य कर्मभ्य एव निवृत्तेरुपनिषज्जन्यविद्याया निष्प्रयोजनत्वाज्जीवस्य चासंसारिब्रह्मात्मतायाः प्रतिपादयितुमशक्यत्वेन निर्विषयत्वाच्चेत्याशङ्क्योपनिषच्छब्दनिर्वचनेन विद्याया विशिष्टाधिकार्यादिमत्त्वप्रदर्शनेन तज्जनकस्य ग्रन्थस्यापि विशिष्टाधिकार्यादिमत्त्वेन व्याख्येयत्वं दर्शयितुं प्रथममुपनिषच्छब्दस्वरूपसिद्धिं तावदाह -
उपनिपूर्वस्येति ।
ब्रह्मविद्यायामुपनिषच्छब्दस्य ‘उपनिषदं भो ब्रूहि’(के.उ. ४-७) इत्यादिप्रयोगदर्शनाद्धात्वर्थमाह -
उपनिषच्छब्देनेति ।
क्लृप्तावयवशक्त्यैव प्रयोगसम्भवे समुदायशक्तिरुपनिषच्छब्दस्य न कल्पनीयेत्याह -
केन पुनरिति ।
‘षद्लृ’ विशरणगत्यवसादनेष्विति धातोर्विशरणमर्थमादाय योगवृत्तिमाह -
उच्यत इति ।
विषयेषु क्षयिष्णुत्वादिदोषदर्शनाद्विरक्ताः केचन मुमुक्षवः प्रसिद्धा न सर्वे भवदृशाः कामुका एवेति यच्छब्देन प्रसिद्धावद्योतकेन कथयति । आनुश्रविकाः शब्दप्रतिपन्नाः स्वर्गभोगादयः ।
उपसद्येति ।
आचार्योपदेशाल्लब्ध्वा यावत्साक्षात्कारं शीलयन्ति संसार्यसंसार्यैक्यासम्भावनादि निरस्यन्तीत्यर्थः ।
गत्यर्थमादायाऽऽह -
पूर्वोक्तेति ।
अग्निविद्यायामप्यवसादनमादायोपनिषच्छब्दस्य वृत्तिमाह -
लोकादिरिति ।
भूरादिलोकानामादिः प्रथमजो ब्रह्मणो जातो ब्रह्मजः स एव जानातीति ज्ञः ।
ग्रन्थे तु भक्त्येति ।
उपचारेणोपनिषच्छब्दप्रयोग इत्यर्थः ।
उपनिषच्छब्दनिर्वचनेन सिद्धमर्थमाह -
एवमित्यादिना ।
आत्यन्तिकी निदाननिवृत्त्या निवृत्तिर्विवक्षिता । निदानं चान्वयव्यतिरेकशास्त्रन्यायेभ्यः संसारस्याऽऽत्मैकत्वाविद्या । सा च न कर्मणा विनिवर्ततेऽतो विद्यायाः प्रयोजनेन साध्यसाधनलक्षणः सम्बन्ध इत्यर्थः । ‘वश’ कान्तावित्यस्य शत्रन्तं रूपमुशन्निति । श्रवः कीर्तिः । सर्वमेधेन सर्वस्वदक्षिणेनेजे यजनं कृतवानित्यर्थः ॥ १ ॥