बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥
स एवमुक्तः पुत्रः एकान्ते परिदेवयाञ्चकार । कथमिति, उच्यते — बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि प्रथमः सन् मुख्यया शिष्यादिवृत्त्येत्यर्थः । मध्यमानां च बहूनां मध्यमः मध्यमयैव वृत्त्या एमि । नाधमया कदाचिदपि । तमेवं विशिष्टगुणमपि पुत्रं माम् ‘मृत्यवे त्वा ददामि’ इत्युक्तवान् पिता । सः किंस्वित् यमस्य कर्तव्यं प्रयोजनं मया प्रदत्तेन करिष्यति यत्कर्तव्यम् अद्य ? नूनं प्रयोजनमनपेक्ष्यैव क्रोधवशादुक्तवान् पिता । तथापि तत्पितुर्वचो मृषा मा भूदिति ॥