कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमा वल्ली
आनन्दगिरिटीका (काठक)
 
स होवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥
तदेवं क्रत्वसम्पत्तिनिमित्तं पितुरनिष्टं फलं पुत्रेण सता निवारणीयं मया आत्मप्रदानेनापि क्रतुसम्पत्तिं कृत्वेत्येवं मन्यमानः पितरमुपगम्य स होवाच पितरम् — हे तत तात कस्मै ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसीति प्रयच्छसीत्येतत् । स एवमुक्तेन पित्रा उपेक्ष्यमाणोऽपि द्वितीयं तृतीयमपि उवाच — कस्मै मां दास्यसि कस्मै मां दास्यसीति । नायं कुमारस्वभाव इति क्रुद्धः सन् पिता तं ह पुत्रं किल उवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति ॥

पीतमुदकं प्रागेव नोत्तरकालं पानशक्तिरप्यस्तीत्यर्थः ॥ ३ - ४ ॥