तꣳ ह कुमारꣳ सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २ ॥
तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्राप्तप्रजननशक्तिं बालमेव श्रद्धा आस्तिक्यबुद्धिः पितुर्हितकामप्रयुक्ता आविवेश प्रविष्टवती । कस्मिन्काले इति, आह — ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु नीयमानासु विभागेनोपनीयमानासु दक्षिणार्थासु गोषु, सः आविष्टश्रद्धो नचिकेताः अमन्यत ॥