अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थमल्पग्रन्था वृत्तिरारभ्यते । सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपमिदम् ‘उपनिषत्’ इति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्या उच्यते । केन पुनरर्थयोगेनोपनिषच्छब्देन विद्योच्यत इति, उच्यते । ये मुमुक्षवो दृष्टानुश्रविकविषयवितृष्णाः सन्तः उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणाद्धिंसनाद्विनाशनादित्यनेनार्थयोगेन विद्योपनिषदित्युच्यते । तथा च वक्ष्यति ‘निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १ । ३ । १५) इति । पूर्वोक्तविशेषणान्वा मुमुक्षून्परं ब्रह्म गमयतीति च ब्रह्मगमयितृत्वेन योगाद्ब्रह्मविद्या उपनिषत् । तथा च वक्ष्यति ‘ब्रह्म प्राप्तो विरजोऽभूद्विमृत्युः’ (क. उ. २ । ३ । १८) इति । लोकादिर्ब्रह्मजज्ञो योऽग्निः, तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवासजन्मजराद्युपद्रवबृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगादग्निविद्यापि उपनिषदित्युच्यते । तथा च वक्ष्यति ‘स्वर्गलोका अमृतत्वं भजन्ते’ (क. उ. १ । १ । १३) इत्यादि । ननु चोपनिषच्छब्देनाध्येतारो ग्रन्थमप्यभिलपन्ति — उपनिषदमधीमहे उपनिषदमध्यापयाम इति च । नैष दोषः, अविद्यादिसंसारहेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थमात्रेऽसम्भवाद्विद्यायां च सम्भवात् ग्रन्थस्यापि तादर्थ्येन तच्छब्दत्वोपपत्तेः ‘आयुर्वै घृतम्’ (तै. सं. २ । ३ । ११) इत्यादिवत् । तस्माद्विद्यायां मुख्यया वृत्त्या उपनिषच्छब्दो वर्तते, ग्रन्थे तु भक्त्येति । एवमुपनिषन्निर्वचनेनैव विशिष्टोऽधिकारी विद्यायाम् उक्तः । विषयश्च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्मभूतम् । प्रयोजनं चास्या आत्यन्तिकी संसारनिवृत्तिर्ब्रह्मप्राप्तिलक्षणा । सम्बन्धश्चैवम्भूतप्रयोजनेनोक्तः । अतो यथोक्ताधिकारिविषयप्रयोजनसम्बन्धाया विद्यायाः करतलन्यस्तामलकवत्प्रकाशकत्वेन विशिष्टाधिकारिविषयप्रयोजनसम्बन्धा एता वल्ल्यो भवन्तीति । अतस्ता यथाप्रतिभानं व्याचक्ष्महे ॥