कठोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमा वल्ली
आनन्दगिरिटीका (काठक)
 
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥
मृत्योः प्रतिज्ञेयम् — ते तुभ्यं प्रब्रवीमि ; यत्त्वया प्रार्थितं तत् उ मे मम वचसः निबोध बुध्यस्व एकाग्रमनाः सन् । स्वर्ग्यं स्वर्गाय हितं स्वर्गसाधनम् अग्निं हे नचिकेतः प्रजानन् विज्ञातवान्सन्नहमित्यर्थः । प्रब्रवीमि तन्निबोधेति च शिष्यबुद्धिसमाधानार्थं वचनम् । अधुनाग्निं स्तौति — अनन्तलोकाप्तिं स्वर्गलोकफलप्राप्तिसाधनमित्येतत् , अथो अपि प्रतिष्ठाम् आश्रयं जगतो विराट्स्वरूपेण, तम् एतम् अग्निं मयोच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायाम् । विदुषां बुद्धौ निविष्टमित्यर्थः ॥

इयं च वक्ष्यमाणा मृत्योः प्रत्निज्ञाऽवगन्तव्या । “स त्रेधाऽऽत्मानं व्यकुरुत”(बृ.उ. १-२-३) इति श्रुतेरग्निवाय्वादित्यरूपेण समष्टिरूपो विराडेव व्यवस्थित इति । तेन विराड्रूपेणाग्निर्जगतः प्रतिष्ठेत्युच्यते ॥ १४ ॥